Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 1 / 44

उदी॑रता॒मव॑र॒उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्तेनो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥44॥

Veda : Atharvaveda | Kand : 18 | Sukta : 1 | Paryay : | Mantra No : 44

In Hindi:

ऋषि : अथर्वा | देवता : पितरगण | छन्द : त्रिष्टुप् | स्वर :

विषय : पितरों के सत्कार का उपदेश।

पदपाठ : उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑स: । उत् । म॒ध्य॒मा: । पि॒तर॑: । सो॒म्यास॑: । असु॑म् । ये । ई॒यु: । अ॒वृ॒का: । ऋ॒त॒ऽज्ञा: । ते । न॒: । अ॒व॒न्तु॒ । पि॒तर॑: । हवे॑षु ॥१.४४॥

पदार्थ : (अवरे) छोटे पदवाले (सोम्यासः) ऐश्वर्य के हितकारी, (पितरः) पितर [पालन करनेवाले विद्वान्] (उत्)उत्तमता से, (परासः) ऊँचे पदवाले (उत्) उत्तमता से और (मध्यमाः) मध्य पदवाले (उत्) उत्तमता से (ईरताम्) चलें। (ये) जिन (अवृकाः) भेड़िये वा चोर का स्वभाव नरखनेवाले, (ऋतज्ञाः) सत्य धर्म जाननेवाले [विद्वानों] ने (असुम्) प्राण [बल वाजीवन] (ईयुः) पाया है (ते) वे (पितरः) पितर [पालन करनेवाले] लोग (नः) हमें (हवेषु) संग्रामों में (अवन्तु) बचावें ॥४४॥"

भावार्थ :

टिप्पणी :४४−(उत्) उत्तमतया (ईरताम्) गच्छन्तु (अवरे) नीचपदस्थाः (उत्) (परासः)उच्चपदस्थाः (उत्) (मध्यमाः) मध्यपदस्थाः (पितरः) पालनशीला विद्वांसः (सोम्यासः)सोमायैश्वर्याय हिताः (असुम्) प्राणम्। बलम्। जीवनम् (ईयुः) प्रापुः (अवृकाः)वृकस्य श्वापदस्य चौरस्य वा स्वभावरहिताः (ऋतज्ञाः) सत्यधर्मस्य ज्ञातारः (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (पितरः) (हवेषु) संग्रामेषु ॥