Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 2 / 47

ये अग्र॑वःशशमा॒नाः प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः। ते द्यामु॒दित्या॑विदन्तलो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ॥47॥

Veda : Atharvaveda | Kand : 18 | Sukta : 2 | Paryay : | Mantra No : 47

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : पितरों के गुणों का उपदेश।

पदपाठ : ये । अग्र॑व: । श॒श॒मा॒ना: । प॒रा॒ऽई॒यु: । हि॒त्वा । द्वेषां॑सि । अन॑पत्यऽवन्त: । ते । द्याम् । उ॒त्ऽइत्य॑ । अ॒वि॒द॒न्त॒ । लो॒कम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । दीध्याना॑: ॥२.४७॥

पदार्थ : (ये) जो (अग्रवः) आगेचलनेवाले, (शशमानाः) उद्योगी (अनपत्यवन्तः) अनैश्वर्य [दरिद्रता] न रखनेवालेपुरुष (द्वेषांसि) द्वेषों को (हित्वा) छोड़कर (परेयुः) ऊँचे गये हैं। (ते) उन (दीध्यानाः) प्रकाशमान लोगों ने (द्याम्) प्रकाशमान विद्या को (उदित्य) उत्तमतासे प्राप्त करके (नाकस्य) महासुख के (पृष्ठे) उपरि भाग में (लोकम्) स्थान (अधि)अधिकारपूर्वक (अविदन्त) पाया है ॥४७॥"

भावार्थ :

टिप्पणी :४७−(ये)विद्वांसः (अग्रवः) मीपीभ्यां रुः। उ० ४।१०१। अग गतौ रु प्रत्ययः। अग्रगामिनः (शशमानाः) शश प्लुतगतौ−चानश्। प्लुतगमनशीलाः। उद्योगिनः (परेयुः) पराप्राधान्येन गताः (हित्वा) त्यक्त्वा (द्वेषांसि) विरोधान् (अनपत्यवन्तः)अघ्न्यादयश्च। उ० ४।११२। द्विनञ्पूर्वात् पत ऐश्वर्ये-यक्।पत्यतेरैश्वर्यकर्मा-निघ० २।२१। अनैश्वर्यरहिताः। परमैश्वर्यवन्तः (ते) (द्याम्)प्रकाशमानां विद्याम् (उदित्य) उत्तमतया प्राप्य (अविदन्त) विद्लृ लाभे-लुङ्।अलभन्त (लोकम्) स्थानम् (नाकस्य) महासुखस्य (दीध्यानाः) दीधीङ्दीप्तिदेवनयोः-शानच्। दीप्यमानाः ॥