Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 12 / 3

यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः। वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ 3॥

Veda : Atharvaveda | Kand : 20 | Sukta : 12 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : वसिष्ठः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : सेनापति के कर्तव्य का उपदेश।

पदपाठ : यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरिऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थु॒: ॥ वि । बाधि॒ष्ट॒ । स्य:। रोदसी॑ इति॑ । ‍म॒हि॒ऽत्वा । इन्द्र॑: । वृ॒त्राणि॑ । अ॒प्र॒त‍ि । ज॒घ॒न्वान् ॥१२.३॥

पदार्थ : (गवेषणम्) भूमि प्राप्त करानेहारे (रथम्) रथ को (हरिभ्याम्) दो घोड़ों से (युजे=युयुजे) उस [सेनापति] ने जोता, (जुजुषाणम्) उस हर्ष करते हुए को (ब्रह्माणि) अनेक धन (उप अस्थुः) उपस्थित हुए। (स्यः) उस (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] ने (वृत्राणि) शत्रुदलों को (अप्रति) बिना रोक (जघन्वान्) मार डालकर (महित्वा) अपने महत्त्व से (रोदसी) दोनों आकाश और भूमि को (वि) विविध प्रकार (बाधिष्ट) बिलोया [मथा] है ॥३॥"

भावार्थ :

टिप्पणी :३−(युजे) युजिर् योगे-लिट्। स युयुजे। योजितवान् (रथम्) यानम् (गवेषणम्) गां भूमिं प्रापकम् (हरिभ्याम्) शत्रुनाशनप्रजापालनरूपाभ्यां तुरङ्गाभ्याम्, (उप अस्थुः) उपतिष्ठन्ते सेवन्ते स्म (ब्रह्माणि) धनानि (जुजुषाणम्) जुष तर्के, जुषी प्रीतिसेवनयोः-कानच्। हृष्यन्तं सेनापतिम् (वि) विविधम् (बाधिष्ट) अबाधिष्ट। विलोडितवान् (स्यः) सः (रोदसी) आकाशभूमी (महित्वा) महत्त्वेन (इन्द्रः) महाप्रतापी सेनापतिः (वृत्राणि) शत्रुसैन्यानि (अप्रति) यथा भवति तथा। प्रातिकूल्यस्य विघ्नस्य राहित्येन (जघन्वान्) हन हिंसागत्योः-क्वसु। नाशितवान् ॥