Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 21 / 4

ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ॥ 4॥

Veda : Atharvaveda | Kand : 20 | Sukta : 21 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : सव्यः | देवता : इन्द्रः | छन्द : जगती | स्वर :

विषय : मनुष्यों के कर्तव्य का उपदेश।

पदपाठ : ए॒भि: । द्युऽभि॑: । सु॒ऽमना॑ । ए॒भि: । इन्दु॑ऽभि: । नि॒ऽरु॒न्धा॒न: । अम॑तिम् । गोभि॑: । अ॒श्विना॑ ॥ इन्द्रे॑ण । दस्यु॑म् । दु॒रय॑न्त: । इन्दु॑ऽभि: । यु॒तऽद्वे॑षस: । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥२१.४॥

पदार्थ : (एभिः) इन (द्युभिः) तेजों से और (एभिः) इन (इन्दुभिः) ऐश्वर्यों से (सुमनाः) प्रसन्न मनवाला, और (गोभिः) गौओं से और (अश्विना) घोड़ों से (अमतिम्) दरिद्रता को (निरुन्धानः) रोकनेवाला वह है। (इन्द्रेण) उस इन्द्र [बड़े ऐश्वर्यवाले राजा] के साथ (इन्दुभिः) ऐश्वर्यों के द्वारा (दस्युम्) डाकू को (दरयन्तः) दर डालनेवाले और (युतद्वेषसः) द्वेष से अलग रहनेवाले हम (इषा) अन्न के साथ (सं रभेमहि) संयुक्त होवें ॥४॥ "

भावार्थ :

टिप्पणी :४−(एभिः) प्रत्यक्षैः (द्युभिः) तेजोभिः (सुमनाः) प्रसन्नचित्तः (एभिः) (इन्दुभिः) ऐश्वर्यैः (निरुन्धानः) रुधिर् आवरणे-शानच्। निवर्तयन् (अमतिम्) पीडकम्। दारिद्र्यम् (गोभिः) धेनुभिः (अश्विना) अश्व-इनि। सुपां सुलुक्०। पा० ७।१।३९। तृतीयाबहुवचनस्य आकारः। अश्वो मार्गव्याप्तिर्यस्यास्तीति अश्वी, यद्वा स्वार्थे इनिः। अश्वैः। तुरङ्गैः (इन्द्रेण) परमैश्वर्यवता राज्ञा (दस्युम्) बलात्कारेण परस्वहर्तारम् (दरयन्तः) विदारयन्तः। नाशयन्तः (इन्दुभिः) ऐश्वर्यैर्द्वारा (युतद्वेषसः) यु मिश्रणामिश्रणयोः-क्त। युतानि पृथग्भूतानि द्वेषांसि शत्रुकर्माणि येषां ते (इषा) अन्नेन (सं रभेमहि) संरब्धाः संगता भवेम ॥