Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 34 / 14

द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते। यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥ 14॥

Veda : Atharvaveda | Kand : 20 | Sukta : 34 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : गृत्समदः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर के गुणों का उपदेश।

पदपाठ : द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ता: । भ॒य॒न्ते॒ । य: । सो॒म॒ऽपा: । नि॒ऽचि॒त: । वज्र॑बाहु: । य: । वज्र॑ऽहस्त: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१४॥

पदार्थ : (द्यावा पृथिवी) आकाश और भूमि (चित्) भी (अस्मै) इस [परमेश्वर] के लिये (नमेते) झुकते हैं, (अस्य) इसके (शुष्मात्) बल से (चित्) ही (पर्वताः) मेघ (भयन्ते) डरते हैं। (यः) जो (निचितः) भरपूर, (सोमपाः) ऐश्वर्य का रक्षक, (वज्रबाहुः) वज्रसमान भुजाओंवाला [दृढ़ शरीरवाले वीरसदृश] है और (यः) जो (वज्रहस्तः) वज्र हाथ में रखनेवाले [दृढ़ हथियारवाले शूर सदृश] है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१४॥"

भावार्थ :

टिप्पणी :१४−(द्यावा पृथिवी) छान्दसं व्यवधानम्। आकाशभूमिलोकौ (चित्) अपि (अस्मै) परमेश्वराय (नमेते) प्रह्वीभवतः (शुष्मात्) बलात् (चित्) एव (अस्य) परमेश्वस्य (पर्वताः) मेघाः (भयन्ते) छान्दसः शप् आत्मनेपदं च। बिभ्यति (यः) (सोमपाः) ऐश्वर्यरक्षकः-दयानन्दभाष्ये यजु०८।३४। (निचितः) चिञ् चयने-क्त। नितरां राशीकृतः। पूरितः (वज्रबाहुः) म०१३। (यः) (वज्रहस्तः) वज्रो दृढशस्त्रं हस्तयोर्यस्य स शूर इव। अन्यद् गतम् ॥