Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 34 / 16

जा॒तो व्य᳡ख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य। स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥ 16॥

Veda : Atharvaveda | Kand : 20 | Sukta : 34 | Paryay : | Mantra No : 16

In Hindi:

ऋषि : गृत्समदः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर के गुणों का उपदेश।

पदपाठ : जा॒त: । वि । अ॒ख्य॒त् । पि॒त्रो: । उ॒पस्थे॑ । भु॒व॒: । न । वे॒द॒ । जनि॒तु: । परस्य॑ ॥ स्त॒वि॒ष्यमा॑ण: । नो इति॑ । य: । अ॒स्मत् । व्र॒ता । दे॒वाना॑म् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१६॥

पदार्थ : (यः) जो (जातः) प्रकट होकर (पित्रोः) [हमारे] माता-पिता के (उपस्थे) समीप में (वि अख्यत्) व्याख्यात हुआ है, और (परस्य) [अपने से] दूसरे (जनितुः) जनक और (भुवः) जननी को (न) नहीं (वेद) जानता है, और (देवानाम्) विद्वानों को (स्तविष्यमाणः) स्तुति किया गया [जो] (नो) अभी ही (अस्मत्) हमारे (व्रता) कर्मों को [जानता है], (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१६॥"

भावार्थ :

टिप्पणी :[सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१६−(जातः) प्रकटः सन् (वि अख्यत्) वि अख्यातोऽभवत् (पित्रोः) अस्माकं मातापित्रोः (उपस्थे) समीपे (भुवः) भू सत्तायाम्-क्विप्। भवन्ति उत्पद्यन्ते सन्ताना यस्यां सा भूः। द्वितीयार्थे षष्ठी। भुवम्। जननीम् (न) निषेधे (वेद) जानाति (जनितुः) जनितारम्। जनकम् (परस्य) परम्। स्वस्माद् भिन्नम् (स्तविष्यमाणः) लृटः सद् वा। पा०३।३।१४। ष्टुञ् स्तुतौ-लृटः शानच्, कर्मणि प्रयोगः। स्तूयमानः (नो) न-उ। न इति सम्प्रत्यर्थे-निरु०७।३१। उ एवार्थे। इदानीमेव (यः) परमेश्वरः (अस्मत्) षष्ठ्यर्थे पञ्चमी। अस्माकम् (व्रता) व्रतानि। कर्माणि-निघ०२।१। (देवानाम्) विदुषां मध्ये। अन्यत् पूर्ववत् ॥