Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 37 / 5

तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः। नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥ 5॥

Veda : Atharvaveda | Kand : 20 | Sukta : 37 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : वसिष्ठः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के धर्म का उपदेश।

पदपाठ : तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुर॑: । न॒व॒तिम् । च॒ । स॒द्य: ॥ नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षी॒: । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥३७.५॥

पदार्थ : (वज्रहस्त) हे हाथों में वज्र रखनेवाले ! (ते) तेरे (तानि) वे (च्यौत्नानि) बल हैं, (यत्) कि (सद्यः) तुरन्त (नव) नव (च) और (नवतिम्) नब्बे [निन्नानवे] (पुरः) नगरों में और (निवेशने) छावनी के बीच (शततमा) सौवें [नगर] में (अविवेषीः) तू व्याप गया है, (च) और (वृत्रम्) रोकनेवाले शत्रु को (अहन्) तूने मारा है (उत) और (नमुचिम्) न छोड़ने योग्य डाकू को (अहन्) मारा है ॥॥"

भावार्थ :

टिप्पणी :−(नव) (च्यौत्नानि) जनिदाच्युसृवृ०। उ०४।१०४। च्युङ् गतौ-त्नण् प्रत्ययः। बलानि-निघ०२।९। (वज्रहस्त) हे शस्त्रपाणे (तानि) प्रसिद्धानि (नवनवतिम्) एकोनशतसंख्याकाः (पुरः) नगर्यः (च) (सद्यः) शीघ्रम् (निवेशने) निवेशे। सेनास्थितिस्थाने (शततमा) नित्यं शतादिमासार्ध०। पा०।२।७। डटस्तमडागमः। शततमीम्। शतसंख्यापूरिकां पुरीम् (अविवेषीः) विष्लृ व्याप्तौ-यङ्लुगन्ताल्लुङि। व्याप्तवानसि (अहन्) मध्यमपुरुषस्य प्रथमपुरुषः। अहः। हतवानसि (च) (वृत्रम्) आवरकं शत्रुम् (नमुचिम्) अ०२०।२१।७। अमोचनीयम्। दण्डनीयम् (उत) अपि च (अहन्) हतवानसि ॥