Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 63 / 3

प्र॒त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन्। अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ 3॥

Veda : Atharvaveda | Kand : 20 | Sukta : 63 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : भुवनः साधनो वा | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : १-६ राजा और प्रजा के धर्म का उपदेश।

पदपाठ : प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भि: । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥ अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑मा: । सु॒ऽवीरा॑: ॥६३.३॥

पदार्थ : (प्रत्यञ्चम्) प्रत्यक्ष पाने योग्य (अर्कम्) पूजनीय व्यवहार को (शचीभिः) अपने कर्मों से (अनयन्) उन [विद्वानों] ने प्राप्त कराया है, और (आत् इत्) तभी (इषिराम्) चलानेवाली (स्वधाम्) आत्मधारण शक्ति को (परि) सब ओर (अपश्यन्) देखा है। (अया) इसी [नीति] से (शतहिमाः) सौ वर्षों जीते हुए (सुवीराः) उत्तम वीरोंवाले हम (देवहितम्) विद्वानों के हितकारी (वाजम्) विज्ञान को (सनेम) देवें और (मदेम) आनन्द करें ॥३॥"

भावार्थ :

टिप्पणी :३−(प्रत्यञ्चम्) प्रत्यक्षेण गन्तव्यं प्रापणीयम् (अर्कम्) अर्चनीयं व्यवहारम् (अनयन्) प्रापयन् ते विद्वांसः (शचीभिः) स्वकर्मभिः (आत्) अनन्तरम् (इत्) एव (स्वधाम्) आत्मधारणशक्तिम् (इषिराम्) अ० ।१।९। गमयित्रीम् (परि) सर्वतः (अपश्यन्) अवलोकितवन्तः (अया) अनया नीत्या (वाजम्) विज्ञानम् (देवहितम्) विद्वद्भ्यो हितकारिणम् (सनेम) विभजेम। दद्याम (मदेम) आनन्देम (शतहिमाः) शतवर्षजीविनः (सुवीराः) उत्तमवीरोपेताः ॥