Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 66 / 2

ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म्। सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥ 2॥

Veda : Atharvaveda | Kand : 20 | Sukta : 66 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : विश्वमनाः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर :

विषय : ऐश्वर्यवान् पुरुष के लक्षणों का उपदेश।

पदपाठ : ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ॥ सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥६६.२॥

पदार्थ : (वैयश्व) हे विविध वेगवाले पुरुष ! (दशमम्) प्रकाशमान [अथवा जीवन के दसवें काल तक] (नवम्) स्तुतियोग्य [वा नवीन अर्थात् बलवान्], (सुविद्वांसम्) बड़े विद्वान् और (चरणीनाम्) चलनेवाले मनुष्यों में (चर्कृत्यम्) अत्यन्त करने योग्य कर्मों में चतुर की (एव) निश्चय करके (नूनम्) अवश्य (उप) आदर से (स्तुहि) तू स्तुति कर ॥२॥"

भावार्थ :

टिप्पणी :२−(एव) निश्चयेन (नूनम्) अवश्यम् (उप) पूजायाम् (स्तुहि) प्रशंस (वैयश्व) वि+अश्व-अण्। न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। पा० ७।३।३। इति ऐकारागमः। अश्वो वेगः। हे विविधवेगवन् पुरुष (दशमम्) प्रथेरमच्। उ० ।६८। दशि भाषायां दीप्तौ च-अमच्, नकारलोपः। दीप्यमानम्। यद्वा दशानां पूरणः, डटि मुडागमः। पुरुषाणां शतायुष्यनियमात् तस्यायुषो दशधा विभागे नवत्यधिकायामवस्थायां वर्तमानम्। अतिवृद्धावस्थापर्यन्तम् (नवम्) स्तुत्यम्। नवीनं बलवन्तम् (सुविद्वांसम्) अतिशयेन ज्ञानिनम् (चर्कृत्यम्) अ० ६।९८।१। यङ्लुगन्तात् करोतेः-क्त, ततः साध्वर्थे-यत्। चर्कृतेषु अतिशयेन कर्तव्येषु कर्मसु कुशलम् (चरणीनाम्) अतिसृधृ०। उ० २।१०२। चर गतिभक्षणयोः-अनि। चर्षणीनां गमनशीलानां मनुष्याणाम् ॥