Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 67 / 6

ए॒ष स्य ते॑ त॒न्वो᳡ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥ 6॥

Veda : Atharvaveda | Kand : 20 | Sukta : 67 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : गृत्समदः | देवता : इन्द्रः | छन्द : जगती | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : ए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥

पदार्थ : (एषः स्यः) यही (नृम्णवर्धनः) धन का बढ़ानेवाला [तत्त्वरस] (ते) तेरे (तन्वः) शरीर का (सहः) बल और (ओजः) पराक्रम होकर (प्रदिवि) उत्तम व्यवहार के बीच (बाह्वोः) तेरी दोनों भुजाओं पर (हितः) धरा गया है। (मघवन्) हे बड़े धनी ! (तुभ्यम्) तेरे लिये (सुतः) सिद्ध किया हुआ [तत्त्वरस] (तुभ्यम्) तुझको (आभृतः) धारण किया गया है, (त्वम्) तू (ब्राह्मणात्) ब्रह्म [परमेश्वर] के ज्ञान से (आ) भले प्रकार (तृपत्) तृप्त होता हुआ (अस्य) इस [तत्त्वरस] का (पिब) पान कर ॥६॥"

भावार्थ :

टिप्पणी :६−(एषः स्यः) स एव (ते) तव (तन्वः) शरीरस्य (नृम्णवर्धनः) अ० ४।२४।३। धनवर्धकः (सहः) बलम् (ओजः) पराक्रमः (प्रदिवि) दिवु व्यवहारे-क्विप्। उत्तमव्यवहारे (बाह्वोः) भुजयोः (हितः) धृतः (तुभ्यम्) (सुतः) संस्कृतस्तत्त्वरसः (मघवन्) हे धनवन् (तुभ्यम्) (आभृतः) समन्ताद् धारितः (त्वम्) (अस्य) तत्त्वरसस्य (ब्राह्मणात्) ब्रह्मणः परमेश्वरस्य ज्ञानात् (आ) समन्तात् (तृपत्) तृप्यन् सन् (पिब) पानं कुरु ॥