Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 68 / 4

परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्। यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥ 4॥

Veda : Atharvaveda | Kand : 20 | Sukta : 68 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : मधुच्छन्दाः | देवता : इन्द्रः | छन्द : गायत्री | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒प॒:ऽचित॑म् ॥ य: । ते॒ । सखि॑ऽभ्य: । आ । वर॑म् ॥६८.४॥

पदार्थ : [हे जिज्ञासु !] तू (परा) समीप (इहि) जा, और (विग्रम्) बुद्धिमान्, (अस्तृतम्) अजेय, (विपश्चितम्) आप्त विद्वान्, (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले मनुष्य] से (पृच्छ) पूँछ, (यः) जो [मनुष्य] (ते) तेरे (सखिभ्यः) मित्रों के लिये (आ) सब प्रकार (वरम्) श्रेष्ठ [मित्र] है ॥४॥"

भावार्थ :

टिप्पणी :मन्त्र ४-१० ऋग्वेद में हैं-१।४।४-१० ॥ ४−(परा) समीपे (इहि) गच्छ (विग्रम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। ग्रह उपादाने-डप्रत्ययः। विविधं गृह्णात्यर्थान् यः स विग्रः। वेर्ग्रो वक्तव्यः। वा० पा० ।४।११९। इति विपूर्वकनासिकाशब्दस्य ग्रः समासान्तादेशः। णस कौटिल्ये-ण्वुल्। विगता नासिका कुटिलता यस्य सः। विग्रहति मेधाविनाम-निघ० ३।१। मेधाविनम् (अस्तृतम्) अहिंसितम्। अजेयम् (इन्द्रम्) परमैश्वर्ययुक्तं मनुष्यम् (पृच्छ) जिज्ञासस्व। प्रश्नं कुरु (विपश्चितम्) आप्तविद्वांसम् (यः) विद्वान् (ते) तव (सखिभ्यः) मित्राणां हिताय (आ) समन्तात् (वरम्) श्रेष्ठं मित्रम् ॥