Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 89 / 3

किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि। अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥ 3॥

Veda : Atharvaveda | Kand : 20 | Sukta : 89 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : कृष्णः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हु॒: । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ॥ अप्न॑स्वती । मम॑ ।धी: । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । न॒: ॥८९.३॥

पदार्थ : (अङ्ग) हे (मघवन्) धनवाले [पुरुष !] (किम्) किस लिये (त्वा) तुझको (भोजम्) पालन करनेवाला (आहुः) वे [विद्वान्] कहते हैं ? (मा) मुझको (शिशीहि) सचेत कर, (त्वा) तुझको (शिशयम्) उद्योगी (शृणोमि) मैं सुनती हूँ। (शक्र) हे शक्तिमान् ! (मम) मेरी (धीः) बुद्धि (अप्नस्वती) कर्मवाली (अस्तु) होवे, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (नः) हमारे लिये (वसुविदम्) धन पहुँचानेवाला (भगम्) ऐश्वर्य (आ) सब ओर से (भर) भर ॥३॥"

भावार्थ :

टिप्पणी :३−(किम्) किमर्थम् (अङ्ग) सम्बोधने (त्वा) त्वाम् (मघवन्) धनवन् (भोजम्) पालकम् (आहुः) कथयन्ति विद्वांसः (शिशीहि) अ० २०।३७।८। तीक्ष्णीकुरु। सचेतसं कुरु (मा) माम् (शिशयम्) वलिमलितनिभ्यः कयन्। उ० ४।९९। शश प्लुतगतौ-कयन्, अकारस्य इकारः। उद्योगिनम् (त्वा) (शृणोमि) (अप्नस्वती) कर्मवती (मम) (धीः) प्रज्ञा (अस्तु) (शक्र) हे शक्तिमन् (वसुविदम्) धनस्य लम्भकम् (भगम्) ऐश्वर्यम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (आ) समन्तात् (भर) धर (नः) अस्मभ्यम् ॥