Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 94 / 5

गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑। त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥ 5॥

Veda : Atharvaveda | Kand : 20 | Sukta : 94 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : कृष्णः | देवता : इन्द्रः | छन्द : जगती | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिन॑: ॥ त्वम् । ई॒श‍ि॒षे॒ । स: । अ॒स्मिन् । आ । व॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥९४.५॥

पदार्थ : (अस्मे) हमको (वसूनि) अनेक धन (आ गमन्) आवें, (हि) क्योंकि (शंसिषम्) मैं कहता हूँ, (सोमिनः) शान्त स्वभाववाले के (स्वाशिषम्) सुन्दर आशीर्वादवाले (भरम्) पोषण व्यवहार को (आ) सब प्रकार (याहि) तू प्राप्त हो। (त्वम्) तू (ईशिषे) स्वामी है, (सः) सो तू (अस्मिन्) इस (बर्हिषि) उत्तम आसन पर (आ) आकर (सत्सि) बैठ (तव) तेरे (पात्राणि) रक्षासाधन (धर्मणा) धर्म के साथ (अनाधृष्या) अजेय हैं ॥॥"

भावार्थ :

टिप्पणी :−(आ गमन्) आगच्छन्तु (अस्मे) अस्मभ्यम् (वसूनि) धनानि (हि) यतः (शंसिषम्) शंस कथने-लुङ्। कथयामि (स्वाशिषम्) शोभनाशीर्वादयुक्तम् (भरम्) पोषणम् (आ) समन्तात् (याहि) प्राप्नुहि (सोमिनः) शान्तस्वभावयुक्तस्य (त्वम्) (ईशिषे) ईश्वरो भवसि (सः) स त्वम् (अस्मिन्) (आ) आगत्य (सत्सि) सीद (बर्हिषि) उत्तमासने (अनाधृष्या) ञिधृषा प्रागल्भ्ये-क्यप्। धर्षितुमशक्यानि। अजेयानि (तव) (पात्राणि) रक्षासाधनानि (धर्मणा) शास्त्रविहितव्यवहारेण ॥