Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 95 / 1

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं य॒थाव॑शत्। स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 20 | Sukta : 95 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : गृत्समदः | देवता : इन्द्रः | छन्द : अष्टिः | स्वर :

विषय : राजा के कर्तव्य का उपदेश।

पदपाठ : त्रिऽक॑द्रुकेषु । म॒हि॒ष: । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्म॑: । तृ॒षत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ॥ स: । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । स: । ए॒न॒म् । स॒श्च॒त् । दे॒व: । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्य: । इन्दु॑: ॥९५.१॥

पदार्थ : (त्रिकद्रुकेषु) तीन [शारीरिक, आत्मिक] और सामाजिक [उन्नतियों] के विधानों में (तृपत्) तृप्त होते हुए (महिषः) महान् (तुविशुष्मः) बहुत बलवाले [शूर] ने (विष्णुना) बुद्धिमान् मनुष्य वा व्यापक परमेश्वर करके (सुतम्) निचोड़े हुए, (यवाशिरम्) अन्न के भोजनयुक्त (सोमम्) सोमक्षरण [तत्त्व रस] को (अपिबत्) पिया है, (यथा) जैसा (अवशत्) उस [शूर] ने चाहा। (सः) उस [तत्त्वरस] ने (ईम्) प्राप्तियोग्य, (महाम्) महान् (उरुम्) लम्बे-चौड़े पुरुष को (महि) बड़े (कर्म) कर्म (कर्तवे) करने के लिये (ममाद) हर्षित किया है, (सः) वह (देवः) दिव्य (सत्यः) सत्य गुणवाला, (इन्दुः) ऐश्वर्यवान् [तत्त्वरस] (एनम्) इस (देवम्) कामनायोग्य, (सत्यम्) सच्चे [सत्यकर्मा] (इन्द्रम्) इन्द्र [महाप्रतापी मनुष्य] को (सश्चत्) व्यापा है ॥१॥"

भावार्थ :

टिप्पणी :यह मन्त्र ऋग्वेद में है-२।२२।१, सामवेद-पू० ।८।१। तथा साम०-उ० ६।३।२० ॥ १−(त्रिकद्रुकेषु) अ० २।।७। त्रि+क्रद कदि आह्वाने-क्रुन्, कप् च। तिसॄणां शारीरिकात्मिकसामाजिकवृद्धीनां कद्रुकेषु आह्वानेषु-विधानेषु (महिषः) महान् (यवाशिरम्) अ० २०।२४।७। अन्नभोजनयुक्तम् (तुविशुष्मः) बहुबलः (तृपत्) नुमभावः। तृप्यन् (सोमम्) तत्त्वरसम् (अपिबत्) पीतवान् (विष्णुना) कर्मसु व्यापकेन विदुषा सर्वव्यापकेन परमेश्वरेण वा (सुतम्) निष्पादितम् (यथा) येन प्रकारेण (अवशत्) वश कान्तौ-छान्दसः शप्। अवष्ट। अकामयत (सः) सोमः (ईम्) प्राप्तव्यम् (ममाद) हर्षितवान् (महि) महत् (कर्म) कर्तव्यम् (कर्तवे) तुमर्थे तवेन्। कर्तुम् (महाम्) महान्तम् (उरुम्) विस्तृतम् (सः) सोमः (एनम्) (सश्चत्) सश्चतिर्गतिकर्मा-निघ० २।१४। असश्चत्। व्याप्तवान् (देवः) दिव्यः (देवम्) कमनीयम् (सत्यम्) यथार्थकर्माणम् (इन्द्रम्) महाप्रतापिनं मनुष्यम् (सत्यः) सत्यगुणयुक्तः (इन्दुः) इदि परमैश्वर्ये-कु। परमैश्वर्यवान् सोमः ॥