Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 126 / 3

किम॒यं त्वां॑ वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः। यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ 3॥

Veda : Atharvaveda | Kand : 20 | Sukta : 126 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : वृषाकपिरिन्द्राणी च | देवता : इन्द्रः | छन्द : पङ्क्तिः | स्वर :

विषय : गृहस्थ के कर्तव्य का उपदेश।

पदपाठ : किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पि: । च॒कार॑ । हरि॑त: । मृ॒ग: ॥ यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॒ । नु । अ॒र्य: । वा॒ । पु॒ष्टि॒मत् । वसु॑ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.३॥

पदार्थ : [हे मनुष्य !] (किम्) कौनसा [अपकार] (अयम्) इस (हरितः) छीन लेनेवाले, (मृगः) घूमनेवाले मृग [जंगली पशु के समान] (वृषाकपिः) वृषाकपि [बलवान् चेष्टा करानेवाले जीवात्मा] ने (त्वाम्) तुझको (चकार) किया है ? (यस्मै) जिस [जीवात्मा] के लिये (अर्यः) स्वामी होकर तू (पुष्टिमत्) पुष्टि रखनेवाले (वसु) धन का (इत्) भी (वा) अवश्य (उ) निश्चय करके (नु) अब (इरस्यसि) डाह करता है, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥३॥"

भावार्थ :

टिप्पणी :३−(किम्) किमपकारम् (अयम्) विचार्यमाणः (त्वाम्) मनुष्यम् (वृषाकपिः) म० १। बलवच्चेष्टाकारको जीवात्मा (चकार) कृतवान् (हरितः) हरणशीलः (मृगः) मृगो मार्ष्टेर्गतिकर्मणः-निरु० १३।३। भ्रमणशीलो वनपशुर्यथा (यस्मै) वृषाकपये जीवात्मने (इरस्यसि) इरस ईष्यायां कण्ड्वादिः। ईर्ष्यसि (इत्) अपि (उ) एव (नु) इदानीम् (अर्यः) स्वामी (वा) अवधारणे (पुष्टिमत्) पोषयुक्तम् (वसु) धनम्। सिद्धमन्यत् ॥