Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 126 / 5

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य᳡दूदुषत्। शिरो॒ न्व᳡स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ 5॥

Veda : Atharvaveda | Kand : 20 | Sukta : 126 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : वृषाकपिरिन्द्राणी च | देवता : इन्द्रः | छन्द : पङ्क्तिः | स्वर :

विषय : गृहस्थ के कर्तव्य का उपदेश।

पदपाठ : प्रि॒या । त॒ष्ठानि॑ । मे॒ । क॒पि: । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त्‌ ॥ शिर॑: । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दु॒:ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.५॥

पदार्थ : (कपिः) कपि [चञ्चल जीवात्मा] ने (मे) मेरे (व्यक्तानि) स्वच्छ किये हुए (प्रिया) प्यारे (तष्टानि) कर्मों को (वि) विरुद्धपन से (अदूदुषत्) दूषित कर दिया है (अस्य) इस [पाप कर्म] के (शिरः) शिर को (नु) अव (राविषम्) मैं काट डालूँ, और (दुष्कृते) दुष्ट कर्म में (सुगम्) सुगम (न) नहीं (भुवम्) हो जाऊँ, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥॥"

भावार्थ :

टिप्पणी :−(प्रिया) कमनीयानि (तष्टानि) कृतानि कर्माणि (मे) मम (कपिः) म० १। कुण्ठिकम्प्योर्नलोपश्च। उ० ४।१४४। कपि चलने-इप्रत्ययः। चपलो जीवात्मा (व्यक्ता) वि+अञ्जू-क्त। स्वच्छीकृतानि (वि) विरोधे (अदूदुषत्) दुष वैकृत्ये-णिच् लुङ्। दूषितवान् (शिरः) मस्तकम् (नु) इदानीम् (अस्य) पापकर्मणः (राविषम्) रुङ् गतिरेषणयोः-लुङ्, अडभावः। लुनीयाम् (न) निषेधे (सुगम्) यथा तथा सुगमम् (दुष्कृते) दुष्टकर्मणि (भुवम्) भवेयम्। अन्यद् गतम् ॥