Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 126 / 15

वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत्। म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ 15॥

Veda : Atharvaveda | Kand : 20 | Sukta : 126 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : वृषाकपिरिन्द्राणी च | देवता : इन्द्रः | छन्द : पङ्क्तिः | स्वर :

विषय : गृहस्थ के कर्तव्य का उपदेश।

पदपाठ : वृ॒ष॒भ: । न । ति॒ग्मऽशृ॑ङ्ग: । अ॒न्त: । यू॒थेषु॑ । रोरु॑षत् ॥ म॒न्थ: । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । वम् । ते॒ । सु॒नोति॑ । भा॒व॒यु: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१५॥

पदार्थ : (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (यूथेषु अन्तः) यूथों के बीच (रोरुवत्) दहाड़ते हुए, (तिग्मशृङ्गः) तीक्ष्ण सींगोंवाले (वृषभः न) बैल के समान, (मन्थः) वह तत्त्व रस (ते) तेरे (हृदे) हृदय के लिये (शम्) शान्तिदायक हो, (यम्) जिस [तत्त्व रस] को (ते) तेरे लिये (भावयुः) सत्ता चाहनेवाला [परमात्मा] (सुनोति) मथता है, [क्योंकि] (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥१॥"

भावार्थ :

टिप्पणी :१−(वृषभः) पुङ्गवः (न) इव (तिग्मशृङ्गः) तीक्ष्णविषाणः (अन्तः) मध्ये (यूथेषु) सजातीयसमूहेषु (रोरुवत्) रु शब्दे-यङ्लुकि शतृ। भृशं ध्वनिं कुर्वन् (मन्थः) तत्त्वरसः (ते) तव (इन्द्र) परमैश्वर्यवन् मनुष्य (शम्) सुखदः (हृदे) हृदयाय (यम्) मन्थम् (ते) तुभ्यम् (सुनोति) निष्पादयति (भावयुः) भावं सत्तामिच्छुकः। अन्यद् गतम् ॥