Samveda/37
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा। भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि॥३७
Veda : Samveda | Mantra No : 37
In English:
Seer : sha.myurbaarhaspatyaH | Devta : agniH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : bRRihadbhiragne archibhiH shukreNa deva shochiShaa . bharadvaaje samidhaano yaviShThya revatpaavaka diidihi.37
Component Words : bRRihadbhiH. agne. archibhiH . shukreNa . deva. shochiShaa. bharadvaaje.bharat.vaaje. samidhaanaH. sa.m. idhaanaH. yaviShThya. revat. paavaka.diidihi ..
In Hindi:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में पुनः परमात्मा से प्रार्थना की गयी है।
पदपाठ : बृहद्भिः। अग्ने। अर्चिभिः । शुक्रेण । देव। शोचिषा। भरद्वाजे।भरत्।वाजे। समिधानः। सं। इधानः। यविष्ठ्य। रेवत्। पावक।दीदिहि ।३।
पदार्थ : हे (यविष्ठ्य) अतिशय युवा, (पावक) पवित्रकर्ता, (देव) दाता (अग्ने) तेजस्वी परमेश्वर ! (बृहद्भिः) महान् (अर्चिभिः) तेजों से, और (शुक्रेण) शुद्ध (शोचिषा) ज्ञान-प्रकाश से (भरद्वाजे) अपने आत्मा में बल भरनेवाले पुरुषार्थप्रिय मुझ स्तोता के अन्दर अथवा बल एवं उत्साह से सम्पन्न मेरे मन के अन्दर (समिधानः) प्रकाशित होते हुए आप (रेवत्) समृद्धिपूर्वक (दीदिहि) देदीप्यमान हों ॥३॥
भावार्थ : मनुष्यों को पुरुषार्थी होकर ही परमेश्वर का आह्वान करना चाहिए। अकर्मण्य की प्रार्थना वह नहीं सुनता ॥३॥
In Sanskrit:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथ पुनः परमात्मानं प्रार्थयते।
पदपाठ : बृहद्भिः। अग्ने। अर्चिभिः । शुक्रेण । देव। शोचिषा। भरद्वाजे।भरत्।वाजे। समिधानः। सं। इधानः। यविष्ठ्य। रेवत्। पावक।दीदिहि ।३।
पदार्थ : हे यविष्ठ्य नित्यतरुण। अतिशयेन युवा यविष्ठः, स एव यविष्ठ्यः। युवशब्दाद् इष्ठन् प्रत्ययः। ततो 'नवसूर्तमर्तयविष्ठेभ्यो यत्' अ० ५।४।२५ वा० इति स्वार्थे यत् प्रत्ययः। (पावक) पवित्रयितः, (देव) दातः (अग्ने) तेजस्विन् परमेश्वर ! (बृहद्भिः) महद्भिः (अर्चिभिः) तेजोभिः, (शुक्रेण) शुद्धेन। शुच्यते पवित्रीभवतीति शुक्रः। शुचिर् पूतीभावे धातोः 'ऋज्रेन्द्राग्र०’ उ० २।२९ इति रन्-प्रत्ययान्तो निपातः। (शोचिषा) ज्ञानप्रकाशेन च (भरद्वाजे२) भरन् बिभ्रद् वाजं बलं स्वात्मनि यः स भरद्वाजः पुरुषार्थ-प्रियः, तादृशे मयि स्तोतरि, यद्वा भरद्वाजे बलोत्साहसम्पन्ने मदीये मनसि। 'मनो वै भरद्वाज ऋषिः।' श० ८।१।१।९। (समिधानः) प्रकाशमानः सन् (रेवत्) समृद्धियुक्तं यथा भवति तथा। धनवाचकाद् रयिशब्दान्मतुपि 'रयेर्मतौ बहुलम्’ अ० ६।१।३७ वा० इति सम्प्रसारणम्। (दीदिहि) देदीप्यस्व। दीदयतिः ज्वलतिकर्मा। निघं० १।१६ ॥३॥
भावार्थ : मनुष्यैः पुरुषार्थिभिरेव भूत्वा परमेश्वर आह्वातव्यः। अकर्मण्यस्य प्रार्थनां स न कर्णे करोति ॥३॥
टिप्पणी:१. ऋ० ६।४८।७। 'रेवन्नः शुक्र दीदिहि' इति पाठः। तदनन्तरं 'द्युमत् पावक दीदिहि’ इत्यधिकम्।२. अस्य मन्त्रस्य शंयुः ऋषिः, मन्त्रे च भरद्वाजस्य नाम। तदेतद् 'ऋषयो मन्त्रकर्तारः क्वचित् स्वकीयं नाम मन्त्रे प्रचिक्षिपुः' इति ये मन्यन्ते तेषां मते कथं संगच्छेत? तत्समाधानं भरतस्वामी प्रोवाच—'भरद्वाजे मम भ्रातरि' इति भरद्वाजः शंयोर्भ्रातासीदिति तदीयोऽभिप्रायः। सायणोऽपि तथैव व्याचख्यौ। वस्तुतस्तु भरद्वाज इति यौगिकं नाम, अतो नात्रेतिहासः शङ्कनीयः।