Samveda/78
प्र सम्राजमसुरस्य प्रशस्तं पुसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु॥७८
Veda : Samveda | Mantra No : 78
In English:
Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : pra samraajamasurasya prashasta.m pu.m saH kRRiShTiinaamanumaadyasya . indrasyeva pra tavasaskRRitaani vandadvaaraa vandamaanaa vivaShTu.78
Component Words : pra. samraajam.sam.raajam.asurasya.a . susya.prashastam.pra. shastam. pu.NsaH. kRRiShTiinaam. anumaadyasya . anu.maadyasya. indrasya . iva. pra . tavasaH . kRRitaani. vandadvaaraa. vandamaanaa . vivaShTu..
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमात्मा के कर्म वन्दनीय हैं, यह वर्णन है।
पदपाठ : प्र। सम्राजम्।सम्।राजम्।असुरस्य।अ । सुस्य।प्रशस्तम्।प्र। शस्तम्। पुँसः। कृष्टीनाम्। अनुमाद्यस्य । अनु।माद्यस्य। इन्द्रस्य । इव। प्र । तवसः । कृतानि। वन्दद्वारा। वन्दमाना । विवष्टु।६।
पदार्थ : हे मित्रो ! तुम (असुरस्य) दोषनाशक, प्राणप्रदाता, (पुंसः) पौरुषवान्, (कृष्टीनाम्) मनुष्यों के (अनुमाद्यस्य) प्रसादनीय अग्निनामक प्रकाशप्रदाता नेता परमात्मा के (प्रशस्तम्) कीर्तियुक्त (सम्राजम्) साम्राज्य की (प्र) प्रकृष्टरूप से स्तुति करो। (वन्दमाना) वन्दनाशील नारी भी (इन्द्रस्य इव) सूर्य के समान (तवसः) महान् उस परमात्मा के (कृतानि) यशोमय कर्मों को (वन्दद्वारा) वन्दना द्वारा (प्र विवष्टु) भली-भाँति गाने की इच्छा करे ॥६॥इस मन्त्र में उपमालङ्कार है ॥६॥
भावार्थ : सब नर-नारियों को दोषापहारक, प्राणप्रद, बलवान् परमेश्वर की वन्दना सदा करनी चाहिए और उसके गुणों को ग्रहण करना चाहिए ॥६॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमात्मनः कर्माणि वन्दनीयानीत्याह।
पदपाठ : प्र। सम्राजम्।सम्।राजम्।असुरस्य।अ । सुस्य।प्रशस्तम्।प्र। शस्तम्। पुँसः। कृष्टीनाम्। अनुमाद्यस्य । अनु।माद्यस्य। इन्द्रस्य । इव। प्र । तवसः । कृतानि। वन्दद्वारा। वन्दमाना । विवष्टु।६।
पदार्थ : हे सखायः ! यूयम् (असुरस्य२) दोषाणां प्रक्षेपकस्य प्राणप्रदस्य वा। असु क्षेपणे धातोः 'असेरुरन्।’ उ० १।४२ इत्युरन्। यद्वा असून् प्राणान् राति ददातीत्यसुरः। असु पूर्वाद् रा दाने धातोः 'आतोऽनुपसर्गे कः।’ अ० ३।२।३ इति कः प्रत्ययः। (पुंसः) पौरुषवतः, (कृष्टीनाम्) मनुष्याणाम्। कृष्टय इति मनुष्यनाम, कर्मवन्तो भवन्ति विकृष्टदेहा वा। निरु० १०।२२। (अनुमाद्यस्य) अनुहर्षितुं योग्यस्य, प्रसादनीयस्य। अनू पूर्वाद् मदी हर्षे धातोर्ण्यत्। अग्नेः ज्योतिष्प्रदस्य नेतुः परमात्मनः (प्रशस्तम्) कीर्तियुक्तम् (सम्राजम्) साम्राज्यम्। अत्र सं पूर्वाद् राजृ दीप्तौ धातोर्भावे क्विप्। (प्र) प्रकर्षेण स्तुत। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। किञ्च, (वन्दमाना) स्तुवन्ती नारी अपि (इन्द्रस्य इव) सूर्यस्य इव। अथ यः स इन्द्रौऽसौ स आदित्यः। श० ८।५।३।२ इत्यादिप्रामाण्याद् इन्द्रः सूर्यः। (तवसः) महतः तस्य परमात्मनः। तवसः इति महन्नामसु पठितम्। निघं० ३।३। (कृतानि) यशोमयानि कर्माणि (वन्दद्वारा३) वन्दनाद्वारेण (प्र विवष्टु) प्रकर्षेण गातुं कामयताम्। वश कान्तौ अदादिः, कान्तिरिच्छा। 'बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ द्वित्वे रूपम् ॥६॥४अत्रोपमालङ्कारः ॥६॥
भावार्थ : सर्वैर्नरैः सर्वाभिर्नारीभिश्च दोषाणामपहर्तुः प्राणप्रदस्य बलवतः परमेश्वरस्य वन्दना सदा कार्या तद्गुणाश्च ग्राह्याः ॥६॥
टिप्पणी:१. ऋ० ७।६।१, देवता वैश्वानरः। 'प्र सम्राजो असुरस्य प्रशस्तिं', 'वन्दे दारुं वन्दमानो विवक्मि'—इति प्रथमतुरीयपादयोः पाठः।२. 'अ-सुरस्य' इति पदपाठश्चिन्त्यः, वेदेषु सुरशब्दस्य क्वचिदपि प्रयोगाभावात्।३. विवरणकारस्य तु 'वन्दद् वारा' इति पदपाठोऽभिमतः। प्रवन्दत् प्रकर्षेण स्तौति, वारा, द्वितीयैकवचनस्य स्थाने आकारः, वारं वरणीयम् इत्यादि तद्व्याख्यानम्। भरतस्वामी तु 'वन्दद्वारा वन्दद्वाराणि वन्दमाना वन्दमानानि' इति व्याचष्टे। सायणोऽपि 'वन्दनं वन्दः स्तुतिः, तद्द्वाराणि स्तुतिप्रमुखानि वन्दमाना सर्वैः स्तूयमानानि कृतानि कर्माणि’ इत्याह।४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।