Samveda/518
अभि सोमास आयवः पवन्ते मद्यं मदम्। समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः॥५१८
Veda : Samveda | Mantra No : 518
In English:
Seer : saptarShayaH | Devta : pavamaanaH somaH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : abhi somaasa aayavaH pavante madya.m madam . samudrasyaadhi viShTape maniiShiNo matsaraaso madachyutaH.518
Component Words : abhi. somaasaH . aayavaH . pavante . madyam . madam. samudrasya . sam . udrasya . adhi . viShTape . maniiShiNaH. matsaraasaH . madachyutaH . mada . chyutaH ..
In Hindi:
ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में यह वर्णन है कि कौन कहाँ आनन्दरस को प्रवाहित करते हैं।
पदपाठ : अभि। सोमासः । आयवः । पवन्ते । मद्यम् । मदम्। समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः। मत्सरासः । मदच्युतः । मद । च्युतः ।८।
पदार्थ : (मनीषिणः) मनन करनेवाले, (मत्सरासः) उल्लासयुक्त, (मदच्युतः) आनन्द बहानेवाले (सोमासः) ब्रह्मानन्द रूप सोमरस का पान किये हुए (आयवः) मनुष्य (समुद्रस्य विष्टपे अधि) राष्ट्ररूप अन्तरिक्ष के लोक में अर्थात् राष्ट्रवासी जनों में (मद्यम्) उल्लासजनक (मदम्) ब्रह्मानन्द-रस को (पवन्ते) प्रवाहित करते हैं ॥८॥
भावार्थ : स्वयं ब्रह्मानन्द-रस में मग्न योगी जन अन्यों को भी ब्रह्मानन्द-रस में मग्न क्यों न करें? ॥८॥
In Sanskrit:
ऋषि : सप्तर्षयः | देवता : पवमानः सोमः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथ के कुत्रानन्दरसं प्रवाहयन्तीत्युच्यते।
पदपाठ : अभि। सोमासः । आयवः । पवन्ते । मद्यम् । मदम्। समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः। मत्सरासः । मदच्युतः । मद । च्युतः ।८।
पदार्थ : (मनीषिणः) मननवन्तः, (मत्सरासः) उल्लासमयाः, (मदच्युतः) आनन्दस्राविणः (सोमासः) पीतब्रह्मानन्दरूपसोमाः। अत्र सोमशब्दस्य सोमवति लक्षणा विज्ञेया, यद्वा सोमासः सोमवन्तः, मतुब्लुक्। (आयवः) मनुष्याः। आयव इति मनुष्यनाम। निघं० २।३। (समुद्रस्य विष्टपे अधि) राष्ट्ररूपस्य अन्तरिक्षस्य लोके, राष्ट्रवासिषु जनेषु इत्यर्थः। (मद्यम्) उल्लासजनकम् (मदम्) ब्रह्मानन्दरसम् (पवन्ते) प्रवाहयन्ति। ‘मत्सरासः’, ‘सोमासः’ इत्युभयत्र ‘आज्जसेरसुक्’ इति जसोऽसुगागमः ॥८॥
भावार्थ : स्वयं ब्रह्मानन्दरसे मग्ना योगिनो जना अन्यानपि ब्रह्मानन्दरसमग्नान् कुतो न कुर्युः ॥८॥
टिप्पणी:१. ऋ० ९।१०७।१४, ‘विष्टपे’, ‘मदच्युतः’ इत्यत्र क्रमेण ‘विसृपि, स्वर्विदः’ इति पाठः। साम० ८५६।