Samveda/618
त्रिपादूर्ध्व उदैत्पुरुषः पदोऽस्येहाभवत्पुनः। तथा विष्वङ् व्यक्रामदशनानशने अभि॥६१८
Veda : Samveda | Mantra No : 618
In English:
Seer : vaamadevo gautamaH | Devta : puruShaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : tripaaduurdhva udaitpuruShaH paado.asyehaabhavatpunaH . tathaa viShva~N vyakraamadashanaanashane abhi.618
Component Words : tripaat.tri.paat.uurdhvaH. ut. ait. puruShaH. paadaH. asya. iha. abhavat. punariti. tathaa. viShva~N.vi.sva~N. vi.akraamat. ashanaanashane.ashana.aanashaneiti. abhi. .
In Hindi:
ऋषि : वामदेवो गौतमः | देवता : पुरुषः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में पुनः उसी परमपुरुष का वर्णन है।
पदपाठ : त्रिपात्।त्रि।पात्।ऊर्ध्वः। उत्। ऐत्। पुरुषः। पादः। अस्य। इह। अभवत्। पुनरिति। तथा। विष्वङ्।वि।स्वङ्। वि।अक्रामत्। अशनानशने।अशन।आनशनेइति। अभि। ४।
पदार्थ : (त्रिपात्) तीन-चौथाई अंशवाला (पुरुषः) पूर्वोक्त परमेश्वर (ऊर्ध्वः उत् ऐत्) इस जगत् से ऊपर उठा हुआ है। (इह पुनः) इस जगत् में तो (अस्य) इस पूर्ण परमेश्वर का (पादः) एक-चतुर्थांश ही (अभवत्) विद्यमान है। (तथा) उसी प्रकार से अर्थात् एक-चतुर्थांश की ही व्याप्ति से (वि-स्वङ्) विविध पदार्थों में सम्यक् प्राप्त हुआ वह (अशनानशने अभि) चेतन-अचेतन को लक्ष्य करके (व्यक्रामत्) विविध रुप से चेष्टा कर रहा है, अर्थात् मनुष्य आदि प्राणियों तथा अग्नि, सूर्य, पवन, पर्वत, नदी आदि चेतन-अचेतन के यथायोग्य प्राणन आदि व्यापार को तथा स्थिति आदि व्यापार को कर रहा है ॥४॥
भावार्थ : इस चेतन-अचेतन-रूप जगत् में जो महान् कर्तृत्व दृष्टिगोचर हो रहा है, उसमें परमेश्वर के सामर्थ्य का थोड़ा-सा अंश ही क्रियाशील है, परमेश्वर का वास्तविक सामर्थ्य और स्वरूप तो लोकातिक्रान्त है ॥४॥
In Sanskrit:
ऋषि : वामदेवो गौतमः | देवता : पुरुषः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ पुनरपि तमेव परमपुरुषं वर्णयति।
पदपाठ : त्रिपात्।त्रि।पात्।ऊर्ध्वः। उत्। ऐत्। पुरुषः। पादः। अस्य। इह। अभवत्। पुनरिति। तथा। विष्वङ्।वि।स्वङ्। वि।अक्रामत्। अशनानशने।अशन।आनशनेइति। अभि। ४।
पदार्थ : (त्रिपात्) त्रि-चतुर्थाशः (पुरुषः) पूर्वोक्तः परमेश्वरः (ऊर्ध्वः उत्-ऐत्) अस्माज्जगतः ऊर्ध्वम् उद्गतोऽस्ति, (इह पुनः) अस्मिन् संसारे तु (अस्य) पूर्णस्य परमेश्वरस्य (पादः) एकश्चतुर्थांश एव (अभवत्) विद्यते। (तथा) तेनैव प्रकारेण एकचतुर्थांशव्याप्त्या इत्यर्थः (वि-स्वङ्२) विविधपदार्थान् सम्यक् प्राप्तः सन्। वि विविधतया सु सम्यग् अञ्चतीति विष्वङ्। (अशनानशने अभि) चेतनाचेतने अभिलक्ष्य। अश्नाति भोगान् भुङ्क्ते इति अशनं चेतनं तद्भिन्नम् अनशनं, ते अशनानशने। (व्यक्रामत्) विचेष्टते, चेतनाचेतनानां मनुष्यादिप्राणिनाम् अग्निसूर्यपवनगिरिनद्यादीनां च यथायोग्यं प्राणनादिव्यापारं स्थित्यादिव्यापारं च विधत्ते इति भावः ॥४॥३
भावार्थ : चेतनाचेतनात्मकेऽस्मिन् जगति यन्महत् कर्तृत्वं दृष्टिगोचरतां याति तत्र परमेश्वरसामर्थ्यस्य स्वल्पांश एव क्रियाशीलो भवति, परमेश्वरस्य वास्तवं सामर्थ्यं स्वरूपं च लोकातिगं वर्तते ॥४॥
टिप्पणी:१. ऋ० १०।९०।४, य० ३१।४ उभयत्र ‘ततो विष्वङ् व्यक्रामत् साशनानशने अभि’ इति पाठः। अथ० १९।६।२ ‘त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः। तथा व्यक्रामद् विष्वङशनानशने अनु’ ॥ इति पाठः।२. विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति सा०। विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति यजुर्भाष्ये म०। यो विषु सर्वत्राञ्चति प्राप्नोति—इति तत्रैव द०। अस्माभिस्तु वि-स्वङ् इति पदपाठः आदृतः।३. दयानन्दर्षिरपि मन्त्रमेतं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।