Samveda/704
ऊर्जो नपात स हिनायमस्मयुर्दाशेम हव्यदातये। भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम्(यु)।।॥७०४
Veda : Samveda | Mantra No : 704
In English:
Seer : sha.myurbaarhaspatyaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : uurjo napaata.m sa hinaayamasmayurdaashema havyadaataye . bhuvadvaajeShvavitaa bhuvadvRRidha uta traataa tanuunaam.704
Component Words : uurja . napaatam . saH . hina . ayam . asmayuH . daashema . havyadaataye . havya . daataye . bhuvat . vaajeShu . avitaa . bhuvat . vRRidhe . uta . traataa . tanuunaama .
In Hindi:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में परमेश्वर की कामना की गयी है।
पदपाठ : ऊर्ज । नपातम् । सः । हिन । अयम् । अस्मयुः । दाशेम । हव्यदातये । हव्य । दातये । भुवत् । वाजेषु । अविता । भुवत् । वृधे । उत । त्राता । तनूनाम ॥
पदार्थ : (ऊर्जः) बल के (नपातम्) न गिरने देनेवाले परमेश्वर की, मैं (प्रप्र शंसिषम्) पुनः पुनः प्रशंसा करता हूँ। (सः अयम्) वह यह (हिन) निश्चय ही (अस्मयुः) हमसे प्रीति करनेवाला है। (हव्यदातये) देने योग्य सद्गुण आदि के दाता उस परमेश्वर के लिये, हम (दाशेम) आत्मसमर्पण करें। वह (वाजेषु) देवासुरसंग्रामों में, हमारा (अविता) रक्षक (भुवत्) होवे, (वृधः) वृद्धिकर्ता (भुवत्) होवे, (उत्) और (तनूनाम्) हमारे अन्नमय प्राणमय, मनोमय आदि शरीरों का (त्राता) त्राणकर्ता, होवे ॥२॥
भावार्थ : मनुष्यों को योग्य है कि परमात्मा को आत्मसमर्पण करके महान् कल्याण प्राप्त करें ॥२॥
In Sanskrit:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ परमेश्वरं कामयते।
पदपाठ : ऊर्ज । नपातम् । सः । हिन । अयम् । अस्मयुः । दाशेम । हव्यदातये । हव्य । दातये । भुवत् । वाजेषु । अविता । भुवत् । वृधे । उत । त्राता । तनूनाम ॥
पदार्थ : (ऊर्जः) बलस्य (नपातम्) न पातयितारम् अग्निं परमेश्वरम्, अहम् (प्रप्र शंसिषम्) पुनः पुनः प्रशंसामि। [प्रप्र शंसिषम् इति पूर्वमन्त्रादाकृष्यते।] (सः अयम्) स एषः (हिन२) निश्चयेन(अस्मयुः) अस्मान् कामयमानः अस्ति। (हव्यदातये) दातव्यानां सद्गुणादीनां दात्रे तस्मै परमेश्वराय, वयम् (दाशेम) आत्मानं समर्पयेम। [हव्यानां दातिः दानं यस्मात् स हव्यदातिः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] सः (वाजेषु) देवासुरसंग्रामेषु, अस्माकम्(अविता) रक्षकः (भुवत्) भवेत्, (वृधः) वर्धकः, (भुवत्) भवेत्, (उत) अपि च (तनूनाम्) अस्माकम् अन्नमयप्राणमयमनोमयादिदेहानाम् (त्राता) त्राणकर्ता, भुवत् भवेत् ॥२॥३
भावार्थ : मनुष्याः स्वात्मानं परमात्मने समर्प्य कल्याणं प्राप्तुमर्हन्ति ॥२॥
टिप्पणी:१. ऋ० ६।४८।२, य० २७।४४।२. हिन इति निपातद्वयसमुदायो हीत्यस्यार्थे—इति सा०। (हिन) खलु—इति ऋ० ६।४८।२ भाष्ये द०। हिनः हितो मनुष्यः हीनायुर्हीनशक्तिर्हीनप्रज्ञो वा इति वि०।३. दयानन्दर्षिर्मन्त्रमिममृग्भाष्ये राजप्रजाविषये यजुर्भाष्ये च गुरुविद्यार्थिविषये व्याख्यातवान्।