Samveda/1031
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसु। दधाति रत्न स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः॥१०३१
Veda : Samveda | Mantra No : 1031
In English:
Seer : trayaH RRiShayaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : jyotiryaj~nasya pavate madhu priya.m pitaa devaanaa.m janitaa vibhuuvasuH . dadhaati ratna.m svadhayorapiichya.m madintamo matsara indriyo rasaH.1031
Component Words : jyotiH .yaj~nasya .pavate .madhu. priyam .pitaa. devaanaam .janitaa. vibhuuvasuH .vibhu .vasu. dadhaati .ratnam .svadhayoH .sva .dhayoH .apiichyam. madintamaH .matsaraH .indriyaH .rasaH.
In Hindi:
ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : आरम्भ में परमात्मा का और उसके रस का वर्णन है।
पदपाठ : ज्योतिः ।यज्ञस्य ।पवते ।मधु। प्रियम् ।पिता। देवानाम् ।जनिता। विभूवसुः ।विभु ।वसु। दधाति ।रत्नम् ।स्वधयोः ।स्व ।धयोः ।अपीच्यम्। मदिन्तमः ।मत्सरः ।इन्द्रियः ।रसः॥
पदार्थ : (यज्ञस्य ज्योतिः) देवपूजा, सङ्गतिकरण, दान आदि रूप यज्ञ का प्रकाश करनेवाला, (देवानाम्) प्रकाशक सूर्य, चन्द्रमा आदियों का और विद्वानों का (पिता) पालनकर्ता, (जनिता) सबको जन्मदेनेवाला, (विभूवसुः) प्रचुर वा व्यापक धनवाला पवमान सोम अर्थात् पवित्रकर्ता जगत्पति परमेश्वर (प्रियं मधु) प्रिय मधुर वर्षाजल को, ज्ञानरस को वा आनन्दरस को (पवते) भूमि पर वा उपासक के अन्तरात्मा में प्रवाहित करता है और (स्वधयोः) द्यावापृथिवी में (अपीच्यम्) छिपे हुए (रत्नम्) चाँदी, सोना, मणि, मोती आदि रत्नों को (दधाति) परिपुष्ट करता है। इसका (इन्द्रियः रसः) जीवात्मा से सेवित ज्ञानरस वा आनन्दरस (मत्सरः) स्फूर्तिदायक तथा (मदिन्तमः) अत्यन्त उत्साहप्रद होता है ॥१॥
भावार्थ : जो सब भौतिक रसों को तथा आध्यात्मिक रस को प्रवाहित करता है, वह जगदीश्वर किसका वन्दनीय नहीं है ॥१॥
In Sanskrit:
ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : तत्रादौ परमात्मानं तदीयं रसं च वर्णयति।
पदपाठ : ज्योतिः ।यज्ञस्य ।पवते ।मधु। प्रियम् ।पिता। देवानाम् ।जनिता। विभूवसुः ।विभु ।वसु। दधाति ।रत्नम् ।स्वधयोः ।स्व ।धयोः ।अपीच्यम्। मदिन्तमः ।मत्सरः ।इन्द्रियः ।रसः॥
पदार्थ : (यज्ञस्य ज्योतिः) देवपूजासंगतिकरणदानाद्यात्मकस्य यज्ञस्य प्रकाशकः, (देवानाम्) प्रकाशकानां सूर्यचन्द्रादीनां विदुषां वा (पिता) पालकः, (जनिता) सर्वेषां जनयिता, (विभूवसुः) प्रभूतधनः व्यापकधनो वा पवमानः सोमः पावकः जगत्पतिः परमेश्वरः (प्रियं मधु) प्रीतिकरं मधुरं वृष्टिजलं ज्ञानरसम् आनन्दरसं वा (पवते) भूमौ उपासकस्यान्तरात्मनि वा प्रवाहयति, अपि च (स्वधयोः) द्यावापृथिव्योः। [स्वधे इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] (अपीच्यम्) अन्तर्हितम्। [अपीच्यमिति निर्णीतान्तर्हितनाम। निघं० ३।२५।] (रत्नम्) रजतसुवर्णमणिमुक्तादिकम् (दधाति) पुष्णाति। अस्य (इन्द्रियः रसः) इन्द्रेण जीवात्मना जुष्टः ज्ञानरसः आनन्दरसो वा (मत्सरः) स्फूर्तिजनकः। [मदी हर्षे, ‘कृधूमदिभ्यः कित्’। उ० ३।७३ इत्यनेन सरन् प्रत्ययः।] (मदिन्तमः) अतिशयेन उत्साहप्रदश्च भवति ॥१॥
भावार्थ : यः सर्वान् भौतिकान् रसानाध्यात्मिकं रसं च प्रवाहयति, द्यावापृथिव्योर्गर्भे बहुमूल्यानि रत्नानि च निदधाति स खलु जगदीश्वरः कस्य न वन्द्यः ॥१॥
टिप्पणी:१. ऋ० ९।८६।१०, ऋषयः अकृष्टा माषाः।