Samveda/1511
न ह्यऽ.ग पुरा च न जज्ञे वीरतरस्त्वत्। न की राया नैवथा न भन्दना(चा)।। [धा. । उ । स्व. ।]॥१५११
Veda : Samveda | Mantra No : 1511
In English:
Seer : vishvamanaa vaiyashvaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH
Subject : English Translation will be uploaded as and when ready.
Verse : na hyaa.m 3ga puraa cha na jaj~ne viiratarastvat . na kii raayaa naivathaa na bhandanaa.1511
Component Words : na . hi . a~Nga . puraa . cha . na . jaj~ne . viirataraH . tvat . na . kiH . raayaa . na . evathaa . na . bhandanaa.
In Hindi:
ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः
विषय : अगले मन्त्र में इन्द्र परमात्मा की महिमा का वर्णन है।
पदपाठ : न । हि । अङ्ग । पुरा । च । न । जज्ञे । वीरतरः । त्वत् । न । किः । राया । न । एवथा । न । भन्दना॥
पदार्थ : हे (अङ्ग) प्रिय परमेश्वर ! (पुरा च न) पहले भी (त्वत्) आपकी अपेक्षा (वीरतरः) अधिक वीर (न जज्ञे) कोई उत्पन्न नहीं हुआ, [अब नहीं है और भविष्य में नहीं होगा, इसका तो कहना ही क्या।] (न किः) न ही (राया) धन में(न एवथा) न गति कर्म व रक्षा में और (न) ही (भन्दना) कल्याण में आपसे अधिक कोई उत्पन्न हुआ है वा होगा ॥३॥
भावार्थ : जगदीश्वर से अधिक वीर, धनी, कर्मण्य, रक्षक और कल्याणकारी अन्य कोई भी न हुआ, न है, न होगा। इसलिए अपने सुख और शान्ति के लिए उसी की वन्दना सबको करनी चाहिए ॥३॥
In Sanskrit:
ऋषि : विश्वमना वैयश्वः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः
विषय : अथेन्द्रस्य परमात्मनो महिमानमाह।
पदपाठ : न । हि । अङ्ग । पुरा । च । न । जज्ञे । वीरतरः । त्वत् । न । किः । राया । न । एवथा । न । भन्दना॥
पदार्थ : हे (अङ्ग) प्रिय परमेश ! (पुरा च न) प्राक्-कालेऽपि (त्वत्) त्वदपेक्षया (वीरतरः) अधिको वीरः कश्चन (न जज्ञे) नैव उत्पन्नः, साम्प्रतं नास्ति, भाविनि काले च न भविष्यतीति किमु वक्तव्यम् (न किः) नैव (राया) धनेन, (न एवथा२) न एवेन गमनेन, कर्मणा, अवनेन वा, (न) नापि च (भन्दना३) भन्दनया कल्याणेन त्वदधिकः (कश्चिद्) जज्ञे वर्तते, जनिष्यते वा। [एवैः अयनैः अवनैर्वा इति निरुक्तम् २।२५। इण् गतौ धातोः ‘इण्शीभ्यां वन्।’ उ० १।१५२ इति वन् प्रत्ययः। ततस्तृतीयार्थे छान्दसः था प्रत्ययः। भन्दना, भदि कल्याणे सुखे च, कल्याणेन। भन्दनया इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१३९ इति तृतीयाया आकारादेशः] ॥३॥
भावार्थ : न खलु जगदीश्वरादधिकः कश्चिद् वीरो धनवान् कर्मण्यो रक्षकः कल्याणकरश्च भूतो वर्तते वर्तिष्यते वा। अत आत्मनः सुखाय शान्त्यै च स एव सर्वैर्वन्दनीयः ॥३॥
टिप्पणी:१. ऋ० ८।२४।१५, ‘च॒न नकी॑’ इति समस्तः पाठः।२. एवथा शत्रुपुराणि संग्रामं वा प्रति गमनेन त्वत्तोऽधिको न जातः, यद्वा एवथा, अव रक्षणादिषु, अकारस्येकारश्छान्दसः, शरणागतानां स्तोतॄणां वा अवने त्वत्तोऽधिको नास्ति—इति सा०।३. भन्दना। भन्दतिः स्तुतिकर्मा, निघं० ३।१४। स्तुत्यश्च त्वदधिको न जातः—इति सा०। भन्दना बलेनापि सम्पन्नः न त्वत्सदृशः—इति वि० ।