Samveda/1564
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम्। अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः॥१५६४
Veda : Samveda | Mantra No : 1564
In English:
Seer : gopavana aatreyaH | Devta : agniH | Metre : anuShTummukhaH pragaathaH | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : vishovisho vo atithi.m vaajayantaH purupriyam . agni.m vo durya.m vacha stuShe shuuShasya manmabhiH.1564
Component Words : vishovishaH . vishaH . vishaH . vaH . atithim . vaajayantaH . puru . priyam . puru . priyam . agnim . vaH . durvam . duH . vam . vachaH . stuShe . shuuShasya . manmabhiH.
In Hindi:
ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुम्मुखः प्रगाथः | स्वर : गान्धारः
विषय : प्रथम मन्त्र की व्याख्या पूर्वार्चिक में ८७ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ यज्ञाग्नि का वर्णन करते हैं।
पदपाठ : विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरु । प्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्वम् । दुः । वम् । वचः । स्तुषे । शूषस्य । मन्मभिः॥
पदार्थ : हे मित्रो ! (वाजयन्तः) बल, आरोग्य और आध्यात्मिक ऐश्वर्य की कामना करते हुए (वः) तुम (विशः विशः) प्रत्येक मनुष्य के (अतिथिम्) अतिथि के समान सत्कार करने योग्य, (पुरुप्रियम्) बहुत प्यारे, (वः) तुम्हें (दुर्यम्) घर के समान शरण देनेवाले (अग्निम्) यज्ञाग्नि के प्रति (वचः) वचन को प्रेरित करो। मैं भी (शूषस्य) बलवान् ज्ञानी परमेश्वर के रचे हुए (मन्मभिः) वेदमन्त्रों से, यज्ञाग्नि की (स्तुषे) स्तुति करता हूँ ॥१॥
भावार्थ : घर में आये हुए अतिथि के समान यज्ञाग्नि को आहुति देकर सबको सत्कार करना चाहिए ॥१॥
In Sanskrit:
ऋषि : गोपवन आत्रेयः | देवता : अग्निः | छन्द : अनुष्टुम्मुखः प्रगाथः | स्वर : गान्धारः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ८७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र यज्ञाग्निर्वर्ण्यते।
पदपाठ : विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरु । प्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्वम् । दुः । वम् । वचः । स्तुषे । शूषस्य । मन्मभिः॥
पदार्थ : हे सखायः ! (वाजयन्तः) बलम् आरोग्यम् आध्यात्मिकमैश्वर्यं च कायमानाः (वः) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य (अतिथिम्) अतिथिवत् सत्करणीयम्, (पुरुप्रियम्) बहुप्रीणयितारम् (वः) युष्माकम् (दुर्यम्) गृहवत् शरणभूतम् (अग्निम्) यज्ञाग्निं प्रति, (वचः) वचनं प्रेरयतेति शेषः। अहमपि (शूषस्य) बलिनो ज्ञानवन्तः परमेश्वरस्य (मन्मभिः) वेदमन्त्रैः, यज्ञाग्निम् (स्तुषे) स्तौमि ॥१॥
भावार्थ : गृहागतोऽतिथिरिव यज्ञाग्निराहुतिप्रदानेन सर्वैः सत्करणीयः ॥१॥
टिप्पणी:१. ऋ० ८।७४।१, साम० ८७।