Samveda/1624
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेडासि दैव्या युयोधि नोऽदेवानि हरासि च (क)।। [धा. । उ । स्व. ।]॥१६२४
Veda : Samveda | Mantra No : 1624
In English:
Seer : sha.myurbaarhaspatyaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : parShi toka.m tanaya.m partRRibhiShTvamadabdhairaprayutvabhiH . agne heDaa.m si daivyaa yuyodhi no.adevaani haraa.m si cha.1624
Component Words : parShi . tokam . tanayam . partRRibhiH . tvam . adavdhaiH . a . dabdhaiH . aprayutvabhiH . a . prayutvabhiH . agne . heDaasi . daivyaa . yuyodhi . naH . adevaani . a . devaani . haraasi . cha.
In Hindi:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में पुनः परमेश्वर और आचार्य को कहते हैं।
पदपाठ : पर्षि । तोकम् । तनयम् । पर्तृभिः । त्वम् । अदव्धैः । अ । दब्धैः । अप्रयुत्वभिः । अ । प्रयुत्वभिः । अग्ने । हेडासि । दैव्या । युयोधि । नः । अदेवानि । अ । देवानि । हरासि । च॥
पदार्थ : हे (अग्ने) परमात्मन् वा आचार्य ! (त्वम्) आप (अदब्धैः) अबाध, (अप्रयुत्वभिः) अलग न होनेवाले (पर्तृभिः) पालन-पूरण के प्रकारों से (तोकं तनयम्) पुत्र-पौत्र की (पर्षि) पालना करो और उन्हें विद्या आदि से भरपूर करो। (नः) हमारे (दैव्या) धार्मिक विद्वानों के प्रति किये जानेवाले(हेडांसि) अनादररूप अपराधों को, (अदेवानि च) और अवाञ्छनीय (ह्वरांसि) कुटिल कर्मों को (युयोधि) हमसे अलग करो ॥२॥
भावार्थ : परमात्मा की प्रेरणा से और गुरुओं की शिक्षा से सब मनुष्यों को दुर्गुण, दुर्व्यसन आदि छोड़ने चाहिएँ और सद्गुणों तथा सत्कर्मों को प्राप्त करना चाहिए ॥२॥
In Sanskrit:
ऋषि : शंयुर्बार्हस्पत्यः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि परमेश्वरमाचार्यं चाह।
पदपाठ : पर्षि । तोकम् । तनयम् । पर्तृभिः । त्वम् । अदव्धैः । अ । दब्धैः । अप्रयुत्वभिः । अ । प्रयुत्वभिः । अग्ने । हेडासि । दैव्या । युयोधि । नः । अदेवानि । अ । देवानि । हरासि । च॥
पदार्थ : हे (अग्ने) अग्रनेतः परमात्मन् आचार्य वा ! (त्वम् अदब्धैः) अबाधैः (अप्रयुत्वभिः) अस्मत्तोऽपृथग्भूतैः, (सदा) संनिहितैरित्यर्थः। [प्र यु मिश्रणामिश्रणयोः, क्वनिप् प्रयुत्वा। ततो नञ्समासः।] (पर्तृभिः) पालनपूरणप्रकारैः। [पॄ पालनपूरणयोः, ‘बहुलमन्यत्रापि’ उ० २।९६ इति तृच्।] (तोकं तनयम्) पुत्रं पौत्रं च (पर्षि) पालय, विद्यादिभिः पूरय (च)। (नः) अस्माकम्(दैव्या) दैव्यानि, देवेषु धार्मिकेषु विद्वत्सु प्रयुक्तानि (हेडांसि) अनादररूपान् अपराधान्। [हेडृ अनादरे, भ्वादिः, ‘सर्वधातुभ्योऽसुन्’ उ० ४।१९०। इत्यसुन्।] (अदेवानि च) अवाञ्छनीयानि च (ह्वरांसि) कुटिलानि कर्माणि (युयोधि) पृथक् कुरु ॥२॥२
भावार्थ : परमात्मनः प्रेरणया गुरूणां च शिक्षया सर्वैर्जनैर्दुर्गुणदुर्व्यसनादीनि परिहर्तव्यानि सद्गुणाः सत्कर्माणि च प्राप्तव्यानि ॥२॥
टिप्पणी:१. ऋ०. ६।४८।१०।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘येऽध्यापकोपदेशकान् अध्यापनोपदेशाभ्यां शुभान् गुणान् ग्राहयित्वा सर्वेषां दोषान्निवारयन्ति च एव सर्वदा सत्कर्तव्या भवन्ति’ इति विषये व्याख्यातवान्।