Samveda/1730
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि। यद्वा रथो विभिष्पतात् (लि)।। [धा. । उ नास्ति । स्व. ।]॥१७३०
Veda : Samveda | Mantra No : 1730
In English:
Seer : praskaNvaH kaaNvaH | Devta : ashvinau | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : vachyante vaa.m kakuhaaso juurNaayaamadhi viShTapi . yadvaa.m ratho vibhiShpataat.1730
Component Words : vachyante . vaam . kakuhaasaH . juurNaayaam . adhi . viShTapi . yat . vaam . rathaH . vibhiH . pataat.
In Hindi:
ऋषि : प्रस्कण्वः काण्वः | देवता : अश्विनौ | छन्द : गायत्री | स्वर : षड्जः
विषय : आगे मन और आत्मा का महत्त्व कहा गया है।
पदपाठ : वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि । यत् । वाम् । रथः । विभिः । पतात्॥
पदार्थ : हे मन और आत्मा रूप अश्वी-युगल ! (वाम्) तुम दोनों के (ककुहासः) महान् स्तोत्र (वच्यन्ते) गान किये जाते हैं, (यत्) क्योंकि (जूर्णायाम्) वृद्ध (विष्टपि अधि) अवस्था में भी (विभिः) इन्द्रिय-रूप अश्वों द्वारा (वाम्) तुम्हारा (रथः) शरीररूप रथ (पतात्) चलता है ॥३॥
भावार्थ : वृद्धावस्था में भी जो शरीर भली-भाँति कार्य करता है, वह सब प्राण-अपान सहित मन और आत्मा का ही प्रताप है ॥३॥
In Sanskrit:
ऋषि : प्रस्कण्वः काण्वः | देवता : अश्विनौ | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ मनआत्मनोर्महत्त्वमुच्यते।
पदपाठ : वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि । यत् । वाम् । रथः । विभिः । पतात्॥
पदार्थ : हे अश्विनौ मनआत्मानौ ! (वाम्) युवयोः (ककुहासः) महान्तः स्तोमाः (वच्यन्ते) उच्यन्ते, (यत्) यतः (जूर्णायाम्) जीर्णायाम्, वृद्धायाम् (विष्टपि अधि) अवस्थायामपि (विभिः) इन्द्रियरूपैः अश्वैः (वाम्) युवयोः (रथः) देहरथः (पतात्) गच्छति। [ककुहासः, ककुह इति महन्नामसु पठितम्। निघं० ३।३। वच्यन्ते, सम्प्रसारणाच्च अ० ६।१।१०८ इत्यत्र ‘वा छन्दसि’ अ० ६।१।१०६ इत्यनुवृत्तेः पूर्वरूपाभावाद् यणादेशः। विष्टप् इति निरुक्ते (२।१४) द्युलोकवाचकोऽपि सन् अत्र आयुरवस्थाविशेषवाचको बोध्यः। विभिः वयन्ति गच्छन्तीति वयः अश्वाः, वी गत्यादिषु। पतात्, पत्लृ धातोर्लेटि रूपम्] ॥३॥२
भावार्थ : वृद्धावस्थायामपि यच्छरीरं सम्यक् कार्यं करोति स सर्वोऽपि प्राणापानसहचरितयोर्मनआत्मनोरेव प्रतापः ॥३॥
टिप्पणी:१. ऋ० १।४६।३।२. ऋग्भाष्ये दयानन्दर्षिमन्त्रमिमं शिल्पविद्यया विमानादियानचालनविषये व्याचष्टे।