Samveda/1754
उता यात संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य। दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान (लो)।।॥१७५४
Veda : Samveda | Mantra No : 1754
In English:
Seer : atrirbhaumaH | Devta : ashvinau | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : utaa yaata.m sa.mgave praatarahno madhyandina uditaa suuryasya . divaa naktamavasaa shantamena nedaanii.m piitirashvinaa tataana.1754
Component Words : uta . aa . yaatam . sa.mgave . sam . gave . praataH . addhaH . a . ddhaH . madhyandine . uditaa . ut . itaa . suuryasya . divaa . naktam . avasaa . shantamena . na . idaaniim . piitiH . ashvinaaH . aa . tataana.
In Hindi:
ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : आगे फिर प्राणापान का विषय है।
पदपाठ : उत । आ । यातम् । संगवे । सम् । गवे । प्रातः । अद्धः । अ । द्धः । मध्यन्दिने । उदिता । उत् । इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शन्तमेन । न । इदानीम् । पीतिः । अश्विनाः । आ । ततान॥
पदार्थ : हे (अश्विना) प्राणापानो ! तुम (अह्नः) दिन के (सङ्गवे) गोदोहनकाल में अर्थात् ब्राह्ममुहूर्त्त में, (प्रातः) प्रातःकाल में, (मध्यन्दिने) मध्याह्न में (उत) और (सूर्यस्य) सूर्य के (उदिता) अस्त होने के काल में, (दिवा) दिन में और (नक्तम्) रात्रि में (शन्तमेन) अतिशय सुखदायक (अवसा) रक्षा के साथ (आयाताम्) आओ। (इदानीम्) इस समय (पीतिः) मृत्यु (न आ ततान) अपना फन्दा न फैलाये, अर्थात् हमारा वध न करे ॥३॥
भावार्थ : विधिपूर्वक प्रातः-सायं किया गया प्राणायाम दिन-रात सब कालों में कष्ट और मृत्यु से प्राणायाम करनेवाले की रक्षा करता है ॥३॥इस खण्ड में यज्ञाग्नि, परमात्मा, उपास्य-उपासक, उषा, आध्यात्मिक प्रभा, रात्रि-उषा, अपरा-परा-विद्या तथा प्राणापान के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥उन्नीसवें अध्याय में चतुर्थ खण्ड समाप्त ॥
In Sanskrit:
ऋषि : अत्रिर्भौमः | देवता : अश्विनौ | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ पुनरपि प्राणापानयोर्विषयमाह।
पदपाठ : उत । आ । यातम् । संगवे । सम् । गवे । प्रातः । अद्धः । अ । द्धः । मध्यन्दिने । उदिता । उत् । इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शन्तमेन । न । इदानीम् । पीतिः । अश्विनाः । आ । ततान॥
पदार्थ : हे (अश्विना) अश्विनौ प्राणापानौ ! युवाम् (अह्नः) दिवसस्य (सङ्गवे) संगच्छन्ते गावो यस्मिन् दोहनार्थं स संगवः रात्रेः परभागकालो ब्राह्ममुहूर्तं वा तस्मिन्, (प्रातः) प्रातःकाले, (मध्यन्दिने) मध्याह्ने (उत) अपि च (सूर्यस्य) आदित्यस्य (उदिता) उदितौ अस्तमनकाले, (दिवा) दिने, (नक्तम्) रात्रौ च (शन्तमेन) सुखयितृतमेन (अवसा) रक्षणेन (आयातम्) गमनागमने कुरुतम्। (इदानीम्) अधुना (पीतिः) मृत्युः। [पीयतिर्हिंसाकर्मा। निरु० ४।२५।] (न आ ततान) स्वपाशं न विस्तारयेत्, नास्मान् हन्यादिति भावः। [तनु विस्तारे, विध्यर्थे लिट्] ॥३॥२
भावार्थ : विधिपूर्वकं प्रातः सायं च कृतः प्राणायामो दिवानिशं सर्वेष्वेव कालेषु कष्टान्मृत्योश्च प्राणायामिनं त्रायते ॥३॥अस्मिन् खण्डे यज्ञाग्नेः परमात्मन उपास्योपासकयोरुषस- आध्यात्मिक्याः प्रभाया रात्र्युषसोरपरापराविद्ययोः प्राणापानयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणी:१. ऋ० ५।७६।३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं कृतविवाहयोः स्त्रीपुरुषयोर्विषये व्याख्याति।