Samveda/1874
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिव्यशेमहि देवहितं यदायुः॥१८७४
Veda : Samveda | Mantra No : 1874
In English:
Seer : jaya aindraH | Devta : vishvedevaaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : bhadra.m karNebhiH shRRiNuyaama devaa bhadra.m pashyemaakShabhiryajatraaH . sthiraira~NgaistuShTuvaa.m sastanuubhirvyashemahi devahita.m yadaayuH.1874
Component Words : bhadram . karNebhiH . shRRiNuyaam . devaaH . bhadram . pashyem . akShabhiH . a . kShabhiH . yajatraaH . sthiraiH . a~NgaiH . tuShTuvaasaH . tu . stuvaasaH . tanuubhiH . vi . ashemahi . devahitam . deva . hitam . yat . aayuH . svasti . su . asti . naH . indraH . vRRiddhashravaaH . vRRiddha . shravaaH . svasti . su . asti . naH . puuShaa . vishvavedaaH . vishva . vedaaH . svasti . su . asti . naH . taarkShyaH . ariShTanemiH .
In Hindi:
ऋषि : जय ऐन्द्रः | देवता : विश्वेदेवाः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में अपनी आकाञ्क्षा प्रकट की गयी है।
पदपाठ : भद्रम् । कर्णेभिः । शृणुयाम् । देवाः । भद्रम् । पश्येम् । अक्षभिः । अ । क्षभिः । यजत्राः । स्थिरैः । अङ्गैः । तुष्टुवासः । तु । स्तुवासः । तनूभिः । वि । अशेमहि । देवहितम् । देव । हितम् । यत् । आयुः । स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमि । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु॥ । ओ३म् । स्वस्तिनोबृहस्पतिर्दधातु॥
पदार्थ : हे (देवाः) विद्वानो ! हम (कर्णेभिः) कानों से (भद्रम्) भद्र वचन (शृणुयाम) सुनें। हे (यजत्राः) पूजनीय माता, पिता, आचार्य, वानप्रस्थ, संन्यासी आदि जनो ! हम (अक्षभिः) आँखों से (भद्रम्) भद्र दृश्य (पश्येम) देखें। (तुष्टुवांसः) जगदीश्वर की स्तुति करनेवाले हम लोग (स्थिरैः) दृढ (अङ्गैः) सिर आदि अङ्गों से वा ब्रह्मचर्य आदि अङ्गों से और (तनूभिः) अन्नमय, प्राणमय, मनोमय आदि शरीरों से (यत्) जो (देवहितम्) सज्जनों का हित करनेवाली वा परमात्मदेव द्वारा निहित कम से कम सौ वर्ष की (आयुः) आयु है, वह (व्यशेमहि) प्राप्त करें ॥२॥
भावार्थ : मन, बुद्धि, प्राण, आँख, कान आदि जो अनुपम साधन मनुष्यों को परमात्मा ने दिये हैं, उनके सदुपयोग से भद्र जीवन बिताते हुए पूर्ण आयु प्राप्त करके आध्यात्मिक और भौतिक उन्नति निरन्तर करनी चाहिए ॥२॥
In Sanskrit:
ऋषि : जय ऐन्द्रः | देवता : विश्वेदेवाः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ स्वाकाङ्क्षां प्रकटयति।
पदपाठ : भद्रम् । कर्णेभिः । शृणुयाम् । देवाः । भद्रम् । पश्येम् । अक्षभिः । अ । क्षभिः । यजत्राः । स्थिरैः । अङ्गैः । तुष्टुवासः । तु । स्तुवासः । तनूभिः । वि । अशेमहि । देवहितम् । देव । हितम् । यत् । आयुः । स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमि । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु॥ । ओ३म् । स्वस्तिनोबृहस्पतिर्दधातु॥
पदार्थ : हे (देवाः) विद्वांसः ! वयम् (कर्णेभिः) कर्णैः श्रोत्रैः (भद्रम्) कल्याणं वचनम् (शृणुयाम) आकर्णयेम। हे (यजत्राः) यजनीया मातापित्राचार्यवानप्रस्थसंन्यासिप्रभृतयो जनाः ! वयम् (अक्षभिः) नेत्रैः (भद्रम्) कल्याणं दृश्यम् (पश्येम) अवलोकयेम। (तुष्टुवांसः) जगदीश्वरं स्तुतवन्तः वयम् (स्थिरैः) दृढैः (अङ्गैः) शिर आदिभिः ब्रह्मचर्यादिभिश्च, (तनूभिः) अन्नमयप्राणमयमनोमयादिभिः शरीरैश्च (यत् देवहितम्२) देवेभ्यः सज्जनेभ्यो हितम् यद्वा देवेन परमात्मना निहितं न्यूनान्न्यूनं शतवार्षिकम् (आयुः) आयुष्यम् अस्ति, तत् (व्यशेमहि) सम्प्राप्नुयाम ॥२॥३
भावार्थ : मनोबुद्धिप्राणचक्षुःश्रोत्रादीनि यान्यनुपमानि साधनानि मनुष्येभ्यः परमात्मना प्रदत्तानि तेषां सदुपयोगेन भद्रजीवनयापनपुरस्सरं पुरुषायुषं प्राप्याध्यात्मिकी भौतिकी चोन्नतिः सततं कार्या ॥२॥
टिप्पणी:१. ऋ० १।८९।८ ‘व्य॑शेम’ इति भेदः। य० २५।२१।२. यत् आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितम्—इति सा०। देवहितं देवैर्यत् स्थापितं मनुष्याणामायुः—इति यजुर्भाष्ये उवटः। देवहितं देवैः स्थापितं, देवानां हितं देवोपासनयोग्यं वा यत् आयुः—इति तत्रैव म०। देवहितं देवेभ्यो विद्वद्भ्यो हितम्—इति ऋग्भाष्ये यजुर्भाष्ये च द०।३. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः किं कर्तव्यमिति विषये व्याचष्टे।