In Hindi:
महर्षि दयानन्द व्याख्या : ॥ ओ३म्॥
सहजानन्दादिमतस्थान् प्रति प्रश्नाः खण्डनञ्च
प्रश्नः—कोऽयं सहजानन्दो नाम?
उत्तरम्—नारायणावतारः स्वामी नारायणाख्याचार्य इति ब्रूमः।
प्रश्नः—कश्च नारायणः?
उत्तरम्—वैकुण्ठगोलोकवासी चतुर्भुजो द्विभुजो लक्ष्मीपतिरीश्वर इत्युच्यते।
प्रश्नः—स इदानीमस्ति न वा?
उत्तरम्—वर्तत एव, तस्येश्वराख्यस्य नित्यत्वात्।
नैवं शक्यम्, ‘स पर्यगाच्छुक्रमकायमव्रणमस्नाविरꣳशुद्धमपाप-विद्धम्१’ इत्यादिश्रुतिविरोधात्। ईश्वरस्यानन्तान्तर्यामिसर्वव्यापकस्य जन्ममरणदेहधारणादेरसम्भवात्। सावयवदेहधारिणः संयोगजन्यादिमतो नित्यत्वेश्वरत्वयोरसम्भवाच्च। यो जन्ममरणशरीरधारणादिव्यवहारवान् स ईश्वर एव न भवति, तर्हीदानीन्तनस्य सहजानन्दस्य तु का कथा?
तस्य सहजानन्दस्याचार्यत्वमेवासङ्गतम्। कुतः मृतस्याध्यापने सामर्थ्या-भावात्—
‘स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्२॥’
‘उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः।
सरहस्यं सकल्पञ्च तमाचार्यं प्रचक्षते३॥’
इति ब्राह्मणमनुसाक्ष्यस्य वर्तमानाभिप्रायस्य विद्यमानत्वात्।
तद्रचितस्य शिक्षाग्रन्थस्य दर्शनेन सहजानन्दे शिष्टशिक्षाविद्याविरहत्व-पाखण्डाचारा विज्ञायन्ते। तस्याः शिक्षापत्र्याः सहजानन्दरचिताया आदिमोऽयं श्लोकः—
वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि।
वृन्दावनविहारन्तं श्रीकृष्णं हृदि चिन्तये॥ १॥
राधा वामे दक्षिणे पश्चिमे पुरतोऽध उपरि वा क्व स्थितेति प्रत्यक्षानुमा-नाप्तशब्दैःकस्यापि निश्चयो नास्ति, अत एव सहजानन्दस्य मिथ्यैव कल्पनास्तीति वेद्यम्। वक्षस्येव श्रीर्वर्त्तत इत्युच्यते चेत्तर्हि मुखाद्यङ्गेषु दरिद्रतास्तीति स्वीक्रियताम्। कृष्णस्तु द्वारिकासन्निधौ मरणं प्राप्तवानित्युक्तं महाभारते। इदानीं कृष्णस्य जीवो न जाने क्वास्ति। वृन्दावने विहरन् कृष्णः केनापि न दृश्यते। किन्तु बहवः पाखण्डिनः पाषाणादिमूर्त्तयश्च तत्र दृश्यन्ते, नैव कृष्णः। पुनः परमेश्वरं निराकारं जन्ममरणादिदोषरहितं विहाय ‘कृष्णं हृदि चिन्तय’ इत्युक्तिर्व्यर्थैवेति॥ १॥
मुकुन्दानन्दमुख्याश्च नैष्ठिका ब्रह्मचारिणः।
गृहस्थाश्च मयारामभट्टाद्या ये मदाश्रयाः॥ ४॥
मुकुन्दानन्दादीनां वेदेश्वरयोर्निष्ठाध्ययनाभावान्नैष्ठिकब्रह्मचारित्वमेवा-सङ्गतम्॥ ४॥
एवमेवाग्रस्थाः श्लोकाः प्रायशोऽशुद्धाः सन्त्यत उपेक्ष्यन्ते।
दृष्ट्वा शिवालयादीनि देवागाराणि वर्त्मनि।
प्रणम्य तानि तद्देवदर्शनं कार्यमादरात्॥ १३॥
पाषाणादिमूर्त्त्यागाराणां देवालयसंज्ञावचनात् ‘तद्देवदर्शनं कार्यमादरादिति’ प्रलापात् सहजानन्दे पदार्थविद्याया अभाव एव दृश्यते॥ १३॥
स्ववर्णाश्रमधर्मो यः स हातव्यो न केनचित्।
परधर्मो न चाचर्यो न च पाखण्डकल्पितः॥ १४॥
वेदोक्तः स्ववर्णाश्रमधर्मः सहजानन्देन किमर्थं त्यक्तः? कुतः, वेद-विरुद्धानां स्वकपोलकल्पितानां पाषाणादिमूर्त्तिपूजनकण्ठीतिलकधारणादि-पाखण्डानां प्रचारकरणात् सहजानन्दे वदतो व्याघातदोषस्समागतो वेदितव्यः॥ १४॥
कृष्णभक्तेः स्वधर्माद् वा पतनं यस्य वाक्यतः।
स्यात्तन्मुखान्न वै श्रव्याः कथा वार्त्ताश्च वा प्रभोः॥ १५॥
कृष्णभक्तिरेव स्वधर्मोऽस्तीति कथनं व्यर्थमेव। कुतः, वेदे वर्णाश्रम-धर्मप्रतिपादनप्रकरणे कृष्णभक्तिः स्वधर्म इति प्रतिपादनस्याभावात्। अतः किं समागतम्? सहजानन्दस्य तत्सम्प्रदायस्थानाञ्च मुखात् कदाचित् केनचिदपि कथा नैव श्रोतव्येति सिद्धान्तः। स कृष्णः प्रभुरेव न, तस्य जन्ममरणादि-स्वभाववत्त्वात्॥ १५॥
ज्ञानवार्त्ताश्रुतिर्नार्या मुखात् कार्य्या न पूरुषैः।
न विवादः स्त्रिया कार्यो न राज्ञा न च तज्जनैः॥ ३४॥
गार्ग्यादिस्त्रीमुखाद् याज्ञवल्क्यादिमहर्षिभिः कथायाः श्रुतत्वात्१ सहजानन्दकल्पना त्वग्राह्या॥ ३४॥
कृष्णदीक्षा गुरोः प्राप्ते तुलसीमालिका गले।
धार्यो नित्यञ्चोर्ध्वपुण्ड्रो ललाटादौ द्विजातिभिः॥ ४१॥
कृष्णदीक्षातुलसीमालाधारणोर्ध्वपुण्ड्रधारणमित्युक्तिः सहजानन्दस्य व्यर्थेव। कुतः, वेदयुक्तिभ्यां विरोधात्। स्वल्पकण्ठीतिलकधारणे पुण्यं भवति चेत्तर्हि कण्ठीभारधारणे सर्वमुखशरीरलेपने च महत्पुण्यं भविष्यतीत्येवं क्रियताम्॥ ४१॥
इत्यादिश्लोकाः सहजानन्दस्य मिथ्या एव वेदितव्याः।
त्रिपुण्ड्ररुद्राक्षधृतिर्येषां स्यात् स्वकुलागता।
तैस्तु विप्रादिभिः क्वापि न त्याज्या सा मदाश्रितैः॥ ४६॥
ऐकात्म्यमेव विज्ञेयं नारायणमहेशयोः।
उभयोर्ब्रह्मरूपेण वेदेषु प्रतिपादनात्॥ ४७॥
एवञ्चेत् सहजानन्दस्य कुलस्थैः कदाचिद् त्रिपुण्ड्ररुद्राक्षधारणं कृतमेवासीत्, पुनस्तेन किमर्थं त्यक्तं त्याजितञ्च? मदाश्रितैरिति बहुशो लिखति, तद्व्यर्थमेव। कुतः तस्याविदुषो जन्ममरणादिदोषवतो जीवस्याश्रयो निष्फलोऽतः॥ ४६॥
नारायणमहेशयोरैक्यमसङ्गतं तयोर्ब्रह्मरूपेण वेदे प्रतिपादनाभावात्। अतः सहजानन्दस्य कथनं व्यर्थमेव॥ ४७॥
प्रणम्य राधाकृष्णस्य लेख्यार्चां तत आदरात्।
शक्त्या जपित्वा तन्मन्त्रं कर्त्तव्यं व्यावहारिकम्॥ ५४॥
राधाकृष्णौ सहजानन्देनान्यैश्च प्रत्यक्षतया नैव दृष्टौ, पुनश्च तयोर्लेख्यां मूॄत कर्तुं सामर्थ्यन्नैव भवेत्। अतस्तत्पूजाकर्त्तव्योक्तिः सहजानन्दस्यान्यथैव वेद्या॥ ५४॥
शैली वा धातुजा मूर्तिः शालिग्रामोऽर्च्य एव तैः॥
द्रव्यैर्यथाप्तैः कृष्णस्य जप्याऽथाष्टाक्षरो मनुः॥ ५६॥
अस्माच्छ्लोकाद् विज्ञायते सहजानन्दस्यापि जडबुद्धिरासीदिति। कुतः, वेदयुक्तिविरुद्धस्य पाषाणादिमूर्त्तिपूजनस्य विधानात्। कृष्णमन्त्रजपेन वेदोक्तविरुद्धेन नास्तिकत्वसिद्धेश्च॥ ५६॥
हरेर्विधाय नैवेद्यं भोज्यं प्रासादिकं ततः।
कृष्णसेवापरैः प्रीत्या भवितव्यं च तैः सदा॥ ५८॥
हरेरप्रत्यक्षत्वात् पाषाणादिजडमूर्त्तेर्भोजनकरणाभावात्, तन्नैवेद्यकरणं व्यर्थमेव। इदन्तु खलु छलमेवास्ति। कुतः, अङ्गुष्ठदर्शनेन घण्टानादं कृत्वा स्वभोजनाभिप्रायस्य विद्यमानत्वात्॥ ५८॥
आचार्येणैव दत्तं यद् यच्च तेन प्रतिष्ठितम्।
कृष्णस्वरूपं तत्सेव्यं वन्द्यमेवेतरत् तु यत्॥ ६२॥
भगवन्मन्दिरं सर्वैः सायं गन्तव्यमन्वहम्।
नामसंकीर्त्तनं कार्यं तत्रोच्चै राधिकापतेः॥ ६३॥
पाषाणादिमूर्त्तिस्वरूपं यो ददाति तत्प्रतिष्ठापयति च तत् कृष्णरूपमेव न, किन्तु तत् पाषाणादिस्वरूपमेव। तच्च कदाचित् केनचिदपि न सेव्यं न चैव वन्द्यम्। किन्तु यस्सर्वशक्तिमानजो न्यायकारी दयालुस्सर्वान्तर्यामी सर्वव्यापी निराकारो भगवान् परमात्मा, स एव सर्वैस्सेव्यो वन्द्यश्चातोऽन्यो नैव वन्द्यस्सेव्यश्चेति निश्चयः॥ ६२॥
अत एवाभगवत्पाषाणादिमूर्त्तिमन्दिरं भगवन्मन्दिरं मन्यमानस्य, तच्च सायं सर्वैरन्वहं गन्तव्यमनीश्वरस्य मरणजन्मवतो राधिकापतेर्मृतस्य कृष्ण-स्योच्चैर्नामसंकीर्तनं कार्यमिति मिथ्योपदेशं प्रबुक्कतस्सहजानन्दस्य वेदविद्या किञ्चन्मात्रापि तस्य नासीद्। असदुपदेशाच्च सद्गतिरपि तस्य नाभूदित्य-नुमीयते। अस्य मिथ्योपदेशस्य ये स्वीकारञ्चक्रुः, कुर्वन्ति, करिष्यन्ति च, तेषामपि सद्गतिर्न भूता, न भवति, न भविष्यति च। किन्तु वेदसद्विद्यां तत्रोपदिष्टं न्यायं पक्षपातरहितं वैरबुद्धित्यागादिलक्षणं धर्मञ्च यथावद् ये स्वीकरिष्यन्ति, सर्वशक्तिमन्न्यायकारिदयालुत्वादिलक्षणस्य निराकारपरमेश्व-रस्य स्तुतिप्रार्थनोपासनाश्च यथावद् ये च [अकुर्वन् कुर्वन्ति] करिष्यन्ति [च] तेषामेव सद्गतिरभूद् भवति भविष्यति चेति सर्वैर्वेदितव्यम्॥ ६३॥
एवमेव अग्रस्थाः श्लोकाः प्रायोऽशुद्धास्सन्तीत्यत उपेक्ष्यन्ते।
एकादशीनां सर्वासां कर्त्तव्यं व्रतमादरात्।
कृष्णजन्मदिनानाञ्च शिवरात्रेश्च सोत्सवम्॥ ७९॥
एकादश्यादीनि व्रतादीनि वेदे क्वापि न विहितानि। किन्तु ब्रह्मचर्यसत्य-भाषणादीन्येव व्रतानि कर्तुं विहितानि। अत एवैकादश्यादीनां व्रतानामाचरणं व्यर्थमेवेति परामर्शः॥ ७९॥
सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनः।
श्रीविट्ठलेशः कृतवान् यं व्रतोत्सवनिर्णयम्॥ ८१॥
कार्यास्तमनुसृत्यैव सर्व एव व्रतोत्सवाः।
सेवारीतिश्च कृष्णस्य ग्राह्या तदुदितैव हि॥ ८२॥
कर्त्तव्या द्वारिकामुख्यतीर्थयात्रा यथाविधि।
सर्वैरपि यथाशक्ति भाव्यं दीनेषु वत्सलैः॥ ८३॥
विष्णुः शिवो गणपतिः पार्वती च दिवाकरः।
एताः पूज्यतया मान्या देवताः पञ्च मामकैः॥ ८४॥
भूताद्युपद्रवे क्वापि वर्म नारायणात्मकम्।
जप्यञ्च हनुमन्मन्त्रो जप्यो न क्षुद्रदैवतः॥ ८५॥
सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनो विट्ठलेशः परधनहरणं धर्मनाशनं व्रतं परस्त्रीगमनादिव्यभिचारोत्सवमपि च कृतवाँस्तत् कार्यत्वेनातिदिशतः सहजानन्दस्यापि दोषापत्तिरेव मन्तव्येति॥ ८१-८२॥
द्वारिकायास्तीर्थयात्रामुपदिशतः सहजानन्दस्य भ्रान्त्यापत्तिरेव विज्ञायते। कुतः, जडे पाषाणजलादौ तीर्थोपदेशाभावात्। तद्यात्राकरणोपदेशो दुःखफलक एवास्ति। किञ्च—अहिꣳसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः१ इति छान्दोग्योप-निषदि, ‘सतीर्थ्यस्सब्रह्मचारि च’ इत्यादिप्रमाणार्थव्यवहारस्य विद्यमानत्वाद् वेदेश्वरविज्ञानानामेव तीर्थसंज्ञा मन्तव्येत्युपदेशः। यैरविद्याजन्ममरणहर्षशोकादि-दुःखानि तरन्ति तानि तीर्थानीति निरुक्तेश्च॥ ८३॥
शिवविष्णुगणपतिपार्वत्यादीनां देहधारिणां मृतानां वेदेषु पूजानभिधानाद्, रवेर्जडत्वाच्च पूजा निष्फला। परमेश्वर एक एव पूज्यस्तत्र पञ्चत्वाभावाद् ‘एताः पूज्यतया मान्याः’ इति सहजानन्दस्योपदेशोऽसङ्गत एवास्तीति बोध्यम्॥ ८४॥
भूताद्युपद्रवनिवारणार्थं नारायणकवचपाठं हनुमन्मन्त्रजपञ्चोपदिशति सहजानन्दे भ्रान्तिरेव सिध्यति। अतस्तदुपदेशप्रमाणं व्यर्थमेव॥ ८५॥
वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम्।
पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम्॥ ९३॥
तथा श्रीभगवद्गीता नीतिश्च विदुरोदिता।
श्रीवासुदेवमाहात्म्यं स्कन्दवैष्णवखण्डगम्॥ ९४॥
धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः।
एतान्यष्टौ ममेष्टानि सच्छास्त्राणि भवन्ति हि॥ ९५॥
स्वहितेच्छुभिरेतानि मच्छिष्यैः सकलैरपि।
श्रोतव्यान्यथ पाठ्यानि कथनीयानि च द्विजैः॥ ९६॥
तत्राचारव्यवहृतिनिष्कृतानाञ्च निर्णये।
ग्राह्या मिताक्षरोपेता याज्ञवल्क्यस्य तु स्मृतिः॥ ९७॥
श्रीमद्भागवतस्यैव तु स्कन्धौ दशमपञ्चमौ।
सर्वाधिकतया ज्ञेयौ कृष्णमाहात्म्यबुद्धये॥ ९८॥
दशमः पंचमः स्कन्धौ याज्ञवल्क्यस्य च स्मृतिः॥
भक्तिशास्त्रं योगशास्त्रं धर्मशास्त्रं क्रमेण मे॥ ९९॥
शारीरकाणां भगवद्गीतायाश्चावगम्यताम्।
रामानुजाचार्यकृतं भाष्यमाध्यात्मिकं मम॥ १००॥
एतेषु यानि वाक्यानि श्रीकृष्णस्य वृषस्य च।
अत्युत्कर्षपराणि स्युस्तथा भक्तिविरागयोः॥ १०१॥
मन्तव्यानि प्रधानानि तान्येवेतरवाक्यतः।
धर्मेण सहिता कृष्णभक्तिः कार्येति तद्रहः॥ १०२॥
वेदाश्चेत्यादयः श्लोका प्रायोऽशुद्धाः सन्ति। श्रीमद्भागवतादिपुराणानां भारते विष्णोः सहस्रनाम्नां भगवद्गीतायाश्च स्वीकारादन्येषां तत्रस्थानां श्रेष्ठानामपि त्यागाद्, वासुदेवमाहात्म्यस्यैव ग्रहणादन्यस्याग्रहणात्, मिता-क्षराटीकान्विताया याज्ञवल्क्यस्मृतेरेव ग्रहणात्, पूर्वमीमांसादिशास्त्राणां मनुस्मृतेश्चाग्रहणादविद्वत्तैव दृश्यते सहजानन्दे। सर्वेभ्यश्चैव स्कन्धेभ्योऽती-वाशुद्धस्य मिथ्याभूताधर्मकथाप्रतिपादकस्य दशमस्कन्धस्य सर्वाधिकतया स्वीकाराद् विषयासक्तो वेदनिन्दकोऽपि सहजानन्दोऽस्तीति विज्ञायते॥ ९३-९८॥
दशमस्कन्धे भक्तिशास्त्रस्य लेशोऽपि नास्ति। किन्तु, व्यभिचाराद्यधर्म-प्रतिपादनं तत्रास्त्येव प्रसिद्धम्। पञ्चमस्कन्धे योगशास्त्रप्रतिपादनं नास्ति। किन्तु, योगाभासप्रतिपादनं तु तत्रास्त्येव। श्रौतसूत्रमीमांसादेर्धर्मशास्त्रस्य तिर-स्कारात् पिष्टपेषणवद् दूषिताया याज्ञवल्क्यस्मृतेः स्वीकारात् सहजानन्दस्य वेदोक्तानां कर्मोपासनाज्ञानकाण्डानां बोध एव नास्तीति विज्ञायते॥ ९९॥
रामानुजकृतस्य शारीरकसूत्रभाष्यस्यात्यशुद्धस्य स्वीकारादविवेकस्सहजा-नन्देऽस्त्येवेति विज्ञायते॥ १००॥
श्रीकृष्णेन वेदस्यैव खल्वत्युत्कर्षो मतः, न च स्ववाक्यानाम्। अत एव सहजानन्देन ‘अत्युत्कर्षपराणि तद्वाक्यानि स्युः’ इत्युक्तत्वाद् भ्रान्त एव स मन्तव्यः॥ १०१॥
वेदवाक्यान्येव सर्वोत्कृष्टानि सन्तीति ब्रह्मादीनामिदानीन्तनान्तानां तु विदुषां सिद्धान्ते विद्यमाने, वेदेभ्योऽपि कृष्णवाक्यान्येव प्रधानान्येवं प्रबुक्कन् सहजानन्दो लज्जामपि न प्राप्तवानिति॥ १०२॥
हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः।
ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः॥ १०७॥
स श्रीकृष्णः परब्रह्म भगवान् पुरुषोत्तमः।
उपास्य इष्टदेवो नः सर्वाविर्भावकारणम्॥ १०८॥
स राधया युतो ज्ञेयो राधाकृष्ण इति प्रभुः।
रुक्मिण्या रमयोपेतो लक्ष्मीनारायणः स हि॥ १०९॥
ज्ञेयोऽर्जुनेन युक्तोऽसौ नरनारायणाभिधः।
बलभद्रादियोगेन तत्तन्नामोच्यते स च॥ ११०॥
जीववन्न कदाचिदीशो भवति, सर्वज्ञसर्वशक्त्यनन्तनिर्विकारत्वादिस्व-भावत्वात्॥ १०७॥
जन्ममरणहर्षशोकाल्पशक्त्यादिवत्वात् कृष्णः परब्रह्म भगवान् पुरुषोत्तमः कदाचिन्नैव सम्भवति। पुनः सर्वशक्तिमन्तं न्यायकारिणं दयालुं सर्वान्तर्यामिणं सच्चिदानन्दादिस्वरूपं निर्दोषं निराकारमजं विभुं वेदयुक्तिसिद्धं परमात्मानं विहाय, जन्ममरणादिव्यवहारवन्तं जीवं कृष्णमुपास्येष्टदेवत्वेन यः सहजानन्दः कथयति, स वेदपदार्थविद्याविहीन एव विज्ञेयः॥ १०८॥
राधा त्वनयाख्यगोपस्य स्त्र्यासीन्न कृष्णस्य। कृष्णस्य रुक्मिण्येव स्त्री। पुनस्तस्य लक्ष्मीनाराणसंज्ञैवायोग्येति वेदितव्यम्॥ १०९॥
‘तत्तन्नामोच्यते स च’ इति सहजानन्दस्योक्तिरन्यथैव। कुतः सर्वज्ञज्ञान-मन्तरा सहजानन्दस्येदं कथनमयुक्तं जातमिति बोध्यम्॥ ११०॥
तस्यैव सर्वथा भक्तिः कर्त्तव्या मनुजैर्भुवि।
निःश्रेयसकरं किञ्चित्ततोऽयन्नेति दृश्यताम्॥ ११३॥
कृष्णस्यापि कल्याणं जातन्न वेति विदुषां सन्देहः। स च परमेश्वरस्यैव भक्तिं कृतवानुपदिष्टवांश्च। पुनस्तस्यैव सर्वैर्मनुष्यैर्भक्तिः कार्या ततोऽन्य-त्कल्याणकरं किञ्चिन्नास्त्येवेति वदन् सहजानन्दो विद्याहीन एवासीत्॥ ११३॥
गुणिनां गुणवत्ताया ज्ञेयं ह्येतत् परं फलम्।
कृष्णे भक्तिश्च तत्संगोऽन्यथा यान्ति विदोऽप्यधः॥ ११४॥
‘गुणिनां गुणवत्ताया’ इत्येवं छन्दोविरुद्धा अशुद्धाः श्लोकास्सन्तिः बहवः शिक्षापत्र्याम्। अतो विज्ञायते सहजानन्दस्य छन्दोज्ञानमपि यथावन्नासीदिति। कृष्णे मृते भक्तिरेवाशक्या निष्फला वेदविरुद्धा चास्ति। विद्वांसस्तु सदैव सद्गतिं प्राप्नुवन्ति, विद्यायाः प्रकाशस्वरूपत्वात्। किञ्च अविद्वांस एव सहजानन्दसदृशा असद्गतिं गता इति विज्ञायते। कुतः, अविद्याया अधर्मा-चरणान्धकारवत्त्वात्॥ ११४॥
निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।
विभाव्य तेन कर्त्तव्या भक्तिः कृष्णस्य सर्वदा॥ ११५॥
निजात्मा जीवो ब्रह्मरूपश्चेद्, ब्रह्मणा तुल्यत्वं तस्मिन् कुतो न दृश्यते? तुल्यत्वं चेत्तर्हि ब्रह्मणा सकलञ्जगद्रचितं, जीवेन नवीनं जगत् किञ्चिन्मात्र-मपि कुतो न रच्यते? जीवब्रह्मणोरैक्यं चेत्तर्हि ब्रह्मैवाविद्याजन्ममरणहर्षशोक-शीतोष्णसुखदुःखज्वरपीडाबन्धादिदोषयुक्तं जातमेवेति स्वीक्रियताम्। जीवाद् ब्रह्म भिन्नञ्चेत् प्रतिज्ञाहानिः। कृष्णोऽपि ब्रह्मभक्तः, एवं सर्वैर्जीवैरपि ब्रह्म-भक्तैरेव भवितव्यम्। नैवान्यस्य कस्यचित् कृष्णादेर्जीवस्य चेति। एवं कृष्णस्य भक्तिः सर्वदा कार्येति सहजानन्दे महती दोषापत्तिरिति विज्ञातव्यम्॥ ११५॥
मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम्।
तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम्॥ १२१॥
चक्राङ्कितवत् सहजानन्दस्य मतमस्तीति विज्ञातव्यम्। विशिष्टाद्वैतशब्द-स्यैवमर्थः क्रियते—अविद्याविशिष्टो जीवो मायया विशिष्ट ईश्वरः। विशिष्टो नाम मिलितः। केचिदेकां मायामीश्वरस्यैव स्वीकुर्वन्ति। एवं चतुर्णां त्रयाणां वा पदार्थानां वर्तमानत्वादद्वैतमेव दुर्लभम्। द्वितीयेन विना विशिष्ट एव न भवति। विशिष्टश्च विशिष्टश्च विशिष्टौ मायाऽविद्याभ्यां युक्तौ जीवेशौ तयोरद्वैतं विशिष्टाद्वैतम्। द्वयोरद्वैतं कदाचिन्न सम्भवति। किन्तु खल्वद्वैतं केवलमेकं ब्रह्मैवास्ति। तद्यथा सजातीयं विजातीयं च द्वितीयं ब्रह्मैव नास्ति, एवं स्वगतभेदोऽपि ब्रह्मणि नास्त्येव, संयोगवियोगाभावात्। अत एव एकमेकर-समद्वितीयं ब्रह्मैवास्तीति वेदयुक्तिसम्मतो ह्यद्वैतशब्दार्थो वेदितव्यः। एवं सति रामानुजसहजानन्दयोर्मतमशुद्धमेव वेदितव्यम्। गवां पशूनां लोको धाम मम चेति स्वीकारात् सहजानन्दे पशुप्रियत्वमेव समागच्छति, स्वजाति-परत्वप्रवाहस्य विद्यमानत्वात्। गोलोक एव निवासत्वात् कृष्ण-सेवानिबन्धनत्वाच्च सैव मुक्तिरिति सहजानन्दादिप्रलापो मिथ्यैवेति विज्ञायताम्॥ १२१॥
मया प्रतिष्ठापितानां मन्दिरेषु महत्सु च।
लक्ष्मीनारायणादीनां सेवा कार्या यथाविधि॥ १३०॥
सहजानन्देनान्यैर्वा प्रतिष्ठापिता विद्याधर्मविरुद्धेषु मिथ्याधनगतव्ययेषु महत्सु मन्दिरेषु पाषाणादिमूर्त्तयो लक्ष्मीनारायणादयः कदाचिन्नैव भवन्ति। वेदानभिहितानां पाषाणादिमूर्त्तीनां जडत्वाल्लक्ष्मीनारायणादीनां तदानी-ञ्चेतनत्वात् पाषाणादिमूर्त्तीनां यथाविधि खण्डनमेव कर्त्तव्यं, नैव च पूजनमिति॥ १३०॥
अथैतयोस्तु भार्याभ्यामाज्ञया पत्युरात्मनः।
कृष्णमन्त्रोपदेशश्च कर्त्तव्यः स्त्रीभ्य एव हि॥ १३३॥
सहजानन्देन विदितमुपदेशमन्तरा स्त्रीभ्योऽपि धनलाभ एव न भविष्यत्यत एवं कपटं प्रसारितम्। तदपि परमात्ममन्त्रोपदेशं विहाय मृतस्य कृष्णस्य मन्त्रोपदेशं चोक्तवान्। अतः सहजानन्दो धनलोभ्यज्ञानी चेति विज्ञायते॥ १३३॥
निजवृत्त्युद्यमप्राप्तधनधान्यादितश्च तैः॥
अर्प्यो दशांशः कृष्णाय विंशांशस्त्विह दुर्बलैः॥ १४७॥
परधनहरणार्थं निजसुखार्थञ्च सहजानन्दस्य प्रसिद्धं कापट्यमेव दृश्यते। विना परिश्रमेण दशांशं विंशांशं धनं गृहीत्वा पुष्कलं संसारस्थं विषयभोगं वयं कुर्म इत्यभिप्रायस्तस्यास्तीति निश्चयः। पुनरन्यथा वदति कृष्णाय समर्प्यमिति। कृष्णस्तु मृतः, स दशांशं विंशाशं धनं ग्रहीतुं नैवागच्छति कदाचिन्नैतादृशं तस्य दारिद्र्यमासीत्। तस्मात् सहजानन्दस्य महती धूर्त्तता वेदितव्या, तथा गोकुलस्थानां वल्लभप्रभृतीनाञ्च। ईदृशानां धूर्त्तानां सम्प्र-दायप्रभृत्यार्यावर्त्तदेशस्य महती हानिर्जाता। अतः सर्वैः सज्जनैरिदानीं दृढप्रयत्नेन सद्य इमे सर्वे सम्प्रदाया निवर्तनीया। अन्यथा स्वदेशस्य भद्रन्नैव भविष्यतीति निश्चेतव्यम्॥ १४७॥
एकादशीमुखानाञ्च व्रतानां निजशक्तितः।
उद्यापनं यथाशास्त्रं कर्त्तव्यं चिंतितार्थदम्॥ १४८॥
कर्त्तव्यं कारणीयं वा श्रावणे मासि सर्वदा।
बिल्वपत्रादिभिः प्रीत्या श्रीमहादेवपूजनम्॥ १४९॥
इयमपि सहजानन्दस्य धूर्त्ततास्ति। यद्येकादश्यादिव्रतानि न करिष्यन्ति तर्ह्युद्यापनेन विना धनलाभोऽपि शिष्येभ्यो नैव भविष्यति। पुनश्च श्रावणे मासि महादेवपूजनमर्थात् पाषाणादिमूर्त्तिपूजनेन विनापि धनप्रतिष्ठे शिष्येभ्यो नैव लप्स्यामह एतदर्थं सहजानन्दस्य कापट्यं वेदितव्यम्॥ १४८-१४९॥
देवताप्रतिमां हित्वा लेख्या काष्ठादिजापि वा।
न योषित्प्रतिमा स्पृश्या न वीक्ष्या बुद्धिपूर्वकम्॥ १७७॥
स्वमन्दिरेषु सहजानन्देन राधाया मूर्त्तिः किमर्था स्थापिता? सा स्त्री नासीत् किम्? पुनश्च ‘वामे यस्य स्थिता राधा, श्रीश्च यस्यास्ति वक्षसि’ इति स्त्रीकथा सहजानन्देन किमर्था कथितोपदिष्टा च? ताश्च साध्वादिभिस्त-च्छिष्यैबुद्धिपूर्वकं किमर्था वीक्ष्यन्ते? तासां राधादीनां च कथा किमर्था क्रियते? अत एव प्रमत्तगीतवत् प्रलापात् सहजानन्दादिषु वदतो व्याघातदोषो बहुश आगच्छतीति वेद्यम्॥ १७७॥
सर्वेन्द्रियाणि जेयानि रसना तु विशेषतः।
न द्रव्यसंग्रहः कार्यः कारणीयो न केनचित्॥ १८८॥
न्यासो रक्ष्यो न कस्यापि धैर्यं त्याज्यं न कर्हिचित्।
न प्रवेशयितव्या च स्ववासे स्त्री कदाचन॥ १९०॥
साधुभिरेवेन्द्रियजयादिकं कर्तव्यमित्युपदिश्यते भवता। तर्हि भवान-साधुरस्ति किम्? गृहस्थेन जितेन्द्रियत्वादिकं नैव कर्त्तव्यं किम्?॥ १८८॥
कस्यचिन्न्यासस्थानं नैव रक्षणीयञ्चेद्, विद्याधर्मेश्वरप्रार्थनास्तुत्युपासना नैव स्थाप्याः किम्? वेदयुक्तिधर्मविरुद्धस्य स्वसम्प्रदायस्थापनं किमर्थं क्रियते, सहजानन्देन च किमर्थं कृतम्? किन्त्वीदृशस्य पाखण्डस्य खण्डनमेव सर्वैः कर्त्तव्यं, सद्धर्ममण्डनञ्चेति॥ १९०॥
इति संक्षेपतो धर्माः सर्वेषां लिखिता मया।
साम्प्रदायिकग्रन्थेभ्यो ज्ञेय एषां तु विस्तरः॥ २०३॥
सच्छास्त्राणां समुद्धृत्य सर्वेषां सारमात्मना।
पत्रीयं लिखिता नॄणामभीष्टफलदायिनी॥ २०४॥
‘इति संक्षेपत’ इति धर्मस्य तु लेशमात्रमपि प्रतिपादनं नैवात्र कृतम्। किन्तु स्वकपोलकल्पनेन स्वभ्रान्तिः प्रकाशिता दृश्यते। वेदादिषु धर्मो यथावल्लिखितोऽस्तीति तज्ज्ञानमेव सहजानन्दस्य नास्ति। लिखितस्य धर्मस्य पुनर्लेखनं व्यर्थमेव पिष्टपेषणवद्दोषात्। सर्वेषां मनुष्याणां सनातनः साम्प्रदायिको ग्रन्थो वेद एवास्ति। पुनः शिक्षापत्र्यादिग्रन्थरचनं व्यर्थमेव विज्ञेयम्। विस्तर इत्यशुद्धं किन्त्वत्र विस्तार इति भवितव्यम्। ‘प्रथने वावशब्दे’ इति व्याकरण-नियमात् [अष्टाध्यायी ३.३.३३]। कथनश्रवणोपाधावेव विस्तरेति भवितव्यं नान्यत्रेति निश्चयः॥ २०३॥
सहजानन्दस्य सच्छास्त्राणां बोधोऽध्ययनञ्चापि नासीदिति विज्ञायते। वेदविरुद्धपाषाणादिमूर्त्तिपूजनङ्कण्ठीतिलकधारणञ्चेत्यादिमिथ्याप्रतिपादनाद-सारभूतेयम्पत्री लिखितेति विज्ञायते। ‘अभीष्टफलदायिनी’ति प्रलोभनमात्रम्। सर्वेषामभीष्टं सुखमेव भवति न च दुःखम्। तत्तु शिक्षापत्रीपाठादिना सर्वदा सुखङ्कर्त्तुमनुभवविरुद्धमेव। ईदृक्कथनेन सहजानन्दे लोभादयो दोषा विज्ञायन्ते। प्रलोभनेन विना सम्प्रदायस्य वृद्धिर्न भवति। तद्वृद्ध्या विना प्रतिष्ठा धनप्राप्तिश्च न भवति। पुनर्यथेष्टं विषयसुखं न लभ्यते हीति सहजानन्दस्य बुद्धौ कपटमासीदिति विज्ञेयम्॥ २०४॥
वर्त्तिष्यन्ते य इत्थं हि पुरुषा योषितस्तथा।
ते धर्मादिचतुर्वर्गसिद्ध प्राप्स्यन्ति निश्चितम्॥ २०६॥
पाषाणादिमूर्त्तिपूजनादिपाखण्डेन सह ये पुरुषाः स्त्रियश्च वर्त्तिष्यन्ते, ते धर्मार्थकाममोक्षसिद्धिन्तु न प्राप्स्यन्ति। किन्त्वधर्मानर्थकुकामदृढबन्ध-सिद्धिमेव प्राप्स्यन्तीति निश्चयः॥ २०६॥
नेत्थं य आचरिष्यन्ति ते त्वस्मत्सम्प्रदायतः।
बहिर्भूता इति ज्ञेयं स्त्रीपुंसैः साम्प्रदायिकैः॥ २०७॥
पाषाणादिमूर्त्तिपूजनं कण्ठीतिलकादिपाखण्डचिह्नधारणं कदाचित्केनचि-दपि नैव कर्त्तव्यम्, इतीत्थं ये वर्त्तन्ते ते धर्मार्थकाममोक्षाणां सिद्ध प्राप्नुवन्त्येव। वेदादिसत्यशास्त्रोक्तं सनातनं सत्यं पक्षपातरहितं न्यायं धर्मं हित्वा शिक्षादि-कपोलकल्पितान्, पक्षपातपिष्टपेषणदोषवद्दूषितान्, सहजानन्दादिरचितान्, वेदपठनमार्गविरोधिनो ग्रन्थान् ये स्वीचक्रुः कुर्वन्ति करिष्यन्ति च, तानेव नास्तिकत्वदोषयुक्तान् सत्यधर्मबहिर्भूताञ्छिष्टा विजानीयुरिति सिद्धम्॥ २०७॥
शिक्षापत्र्याः प्रतिदिनं पाठोऽस्या मदुपाश्रितैः।
कर्त्तव्योऽनक्षरज्ञैस्तु श्रवणं कार्य्यमादरात्॥ २०८॥
वक्रभावे तु पूजैव कार्यास्याः प्रतिवासरम्।
मद्रूपमिति मद्वाणी मान्येयं परमादरात्॥ २०९॥
युक्ताय सम्पदा दैव्या दातव्येयं तु पत्रिका।
आसुर्या सम्पदाढ्याय पुंसे देया न कर्हिचित्॥ २१०॥
वेदानां पठनं श्रवणञ्च विहाय शिक्षापत्र्यादीनां सहजानन्दादिकपोल-कल्पितानां ग्रन्थानां पठनश्रवणे व्यर्थे एवेति वेदितव्यम्॥ २०८॥
ईदृशस्य जडस्य व्यर्थपुस्तकस्य पूजाकरणोपदेशोऽयुक्त एव। वाणी जीवस्य रूपमेव न भवति कदाचित्। पुनः परमादरान्मान्या तु न, किन्तु परमप्रयत्नात्खण्डनीयाऽशुद्धत्वादिति। एतत्कथं सहजानन्दस्याज्ञानिनो बालान् भ्रामयित्वा कपटेन धनादिकं तेभ्यो हर्त्तव्यमित्यभिप्रायः॥ २०९॥
यो दैव्या सम्पदा युक्तो जनस्त्विमां शिक्षापत्रीं कदाचिन्नैव ग्रहीष्यति, तस्मिन्विद्याप्रकाशस्य विद्यमानत्वात्। यस्त्वविद्याद्यसुरसम्पद्युक्तः स एतां स्वीकरोति। तस्मिन् सम्प्रदाहशब्दवाच्यस्य सम्प्रदायाग्रहान्धकारस्य विद्यमा-नत्वात्। सम्यक्प्रकृष्टतया दग्धज्ञाना भवन्ति यस्मिन् सोऽयं सम्प्रदाहः। इदानीन्तनास्सम्प्रदाया वेदविरुद्धास्सर्वे सम्प्रदाहशब्दवाच्या एव वेदितव्या इति परामर्शः॥ २१०॥
मरणसमये स्वशिष्याणां हस्तं गृहीत्वा विमानस्योपरि स्थापयित्वा वैकुण्ठं नयति सहजानन्दः, परमसुखश्च ददातीति मिथ्या प्रलापः सहजानन्दशिष्यादि-मुखाच्छ्रूयते स सत्यो वा मिथ्या?
मिथ्यैवेति निश्चयः। कथं, यो मृतः स आगन्तुं पूर्वदेहकार्यं कर्तुं च नैव समर्थो भवति। यदि समर्थः स्यात्तर्हि तत्सम्प्रदायस्थैश्छलादिव्यवहारेण धनादिपदार्थाः पुष्कलास्स्वाधीनाःकृतास्तद्भोगं कर्तुमप्यवश्यमागच्छेत्। भोगार्थञ्च न चैवागच्छति किमतो विज्ञायते छिन्ननासिकसम्प्रदायवदज्ञानि-जनमोहार्थं तादृशं कथनं ते कुर्वन्ति। नैतत्सज्जनैर्मन्तव्यमिति।
स्वशिष्या लोहादिभिश्चक्रादीनाञ्चिह्नानि रचयित्वाग्नौ प्रतप्य बाहूमूले च सजीवान् देहान् दग्धयन्ति सहजानन्दसम्प्रदायादिस्थाः अहो महत्पाप-मिति वेद्यम्। केचित्तु वकवृत्तिवत् साधवो जातास्ते स्त्रीदर्शनादिकं न कुर्वन्ति धातुस्पर्शञ्च। तदाचार्य्यो गृहस्थोऽस्ति च, स प्रलोभनाद्यनेकमन्दिरादिमिथ्या-व्यवहारैर्धनादिकं हरति, ते च साधवो हारयन्ति, द्वौ विवाहावप्येकः कृतवानी-दृगन्यथाव्यवहारो यस्मिन् सम्प्रदाये वर्त्तते तस्मिन् सम्प्रदाये कल्याणस्य प्रत्याशा केनापि नैव कर्त्तव्येति सज्जनैर्वेदितव्यम्। इति सहजानन्दसम्प्रदायस्य दोषदर्शनं दिङ्मात्रमिह वर्णितमधिकञ्च स्वबुद्ध्योहनीयमिति।
सर्वात्मा सच्चिदानन्दोऽजोऽनन्तस्सर्वशक्तिमान्।
भूयात्तमां सहायो नो न्यायकारी शुचिः प्रभुः॥ १॥
भूमिरामाङ्कचन्द्रेऽब्दे सहस्यस्याऽसिते दले।
एकादश्यामर्कवारे ग्रन्थोऽयम्पूर्त्तिमागमत्॥ २॥