Samveda/699
तं दुरोषमभीनरः सोमं विश्वाच्या धिया। यज्ञाय सन्त्वद्रयः(यि)।।॥६९९
Veda : Samveda | Mantra No : 699
In English:
Seer : andhiiguH shyaavaashviH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : ta.m duroShamabhii naraH soma.m vishvaachyaa dhiyaa . yaj~naaya santvadrayaH.699
Component Words : tam . duroSham . abhi . naraH . somam . vishvachyaa . dhiyaa . yaj~naaya . santu . adbhayaH . a . drayaH .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अन्धीगुः श्यावाश्विः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में पुनः उसी विषय का वर्णन है।
पदपाठ : तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वच्या । धिया । यज्ञाय । सन्तु । अद्भयः । अ । द्रयः ॥
पदार्थ : (दुरोषम्) जलाये या सुखाये न जा सकने योग्य (तम्) उस पूर्ववर्णित (सोमम्) ज्ञान-कर्म-उपासनारूप सोमरस को (नरः) सज्जन लोग (विश्वाच्या) सब उत्कृष्ट विषयों के विवेचन में व्याप्त होनेवाली (धिया) बुद्धि से (अभि) अभिषुत करें, जिससे (अद्रयः) किसी भी आन्तरिक या बाह्य शत्रु से विदीर्ण न होनेवाले वे लोग (यज्ञाय) परमेश्वर की पूजा, विद्वानों के सत्कार, संगठन और परोपकार-रूप यज्ञ के लिए (सन्तु) होवें ॥३॥
भावार्थ : श्रेष्ठज्ञान, सत्कर्म और परमेश्वर की उपासना को जो अपने जीवन में ग्रहण करते हैं वे सदा विजयी और यज्ञपरायण होते हैं ॥३॥
In Sanskrit:
ऋषि : अन्धीगुः श्यावाश्विः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनरपि तमेव विषयमाह।
पदपाठ : तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वच्या । धिया । यज्ञाय । सन्तु । अद्भयः । अ । द्रयः ॥
पदार्थ : (दुरोषम्२) दुर्दहं दुःशोषं वा। [दुःखेन उष्यते दह्यते इति दुरोषः तम्। दुर्पूर्वः उष दाहे भ्वादिः।] पूर्ववर्णितम् (सोमम्) ज्ञानकर्मोपासनारूपम् सोमरसम् (नरः) सज्जनाः (विश्वाच्या३) सर्वान् सद्विषयान् व्याप्नुवानया। [विश्वान् सर्वान् विवेचनीयान् विषयान् प्रति अञ्चति गच्छतीति तया।] (धिया) बुद्ध्या (अभि) अभिषुण्वन्तु। [उपसर्गबलेन योग्यक्रियाध्याहारः।] येन (अद्रयः४) केनापि आन्तरिकेण बाह्येन वा शत्रुणा अविदृताः ते (यज्ञाय) ईशपूजनाय विद्वत्सत्काराय संगतिकरणाय परोपकाराय च (सन्तु) भवन्तु ॥३॥
भावार्थ : सज्ज्ञानं सत्कर्म परमेश्वरोपासनां च ये स्वजीवने गृह्णन्ति ते सदा विजयिनो यज्ञपरायणाश्च जायन्ते ॥३॥
टिप्पणी:१. ऋ० ९।१०१।३ ‘य॒ज्ञं हि॑न्व॒न्त्यद्रि॑भिः’ इति तृतीयः पादः।२. रोषतेहिंसार्थस्य रेफलोपे दीर्घाभावे ओषतेर्दाहार्थस्य वा णलि रूपमिति सन्देहादनवग्रहः—इति सा०। दुरोषम् अरोषम्—इति वि०।३. विश्वाच्या विश्वगामिन्या—इति वि०। सर्वान् कामान् अञ्चित्र्या कामान् प्रापयित्र्या—इति सा०।४. अद्रयः मेघाः वर्षस्वभावाः अथवा अद्रयः अभिषवग्राव्णः—इति वि०। अद्रयः अवारणयुक्ताः इति सा०।