Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 3 / 27 / 2

दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥ 2॥

Veda : Atharvaveda | Kand : 3 | Sukta : 27 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : दक्षिणदिक्, इन्द्रः, तिरश्चिराजी, पितरगणः | छन्द : पञ्चपदा ककुम्मत्यष्टिः | स्वर :

विषय : सेना व्यूह का उपदेश।

पदपाठ : दक्षि॑णा । दिक् । इन्द्र॑: । अधि॑ऽपति: । तिर॑श्चिऽराजि: । र॒क्षि॒ता । पि॒तर॑: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ ।य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म: ॥२७.२॥

पदार्थ : (दक्षिणा-०-णायाः) दक्षिण वा दाहिनी ओर वाली (दिक्=दिशः) दिशा का (इन्द्रः) बड़े ऐश्वर्यवाला इन्द्र [अधिकारी सेनापति] (अधिपतिः) अधिष्ठाता हो, (तिरश्चिराजिः) तिरछी धारीवाले साँप यद्वा पशु पक्षी आदि की पङ्क्ति [के समान सेना व्यूह] (रक्षिता) रक्षक हो, (पितरः) रक्षा करने हारे (इषवः) बाण होवें। (तेभ्यः) उन (अधिपतिभ्यः) अधिष्ठाताओं और (रक्षितृभ्यः) रक्षकों के लिये (नमो नमः) बहुत बहुत सत्कार वा अन्न और (एम्यः) इन (इषुभ्यः) बाणों [बाणवालों] के लिये (नमोनमः) बहुत-२ सत्कार वा अन्न (अस्तु) होवे (यः) जो [वैरी] (अस्मान्) हमसे (द्वेष्टि) वैर करता है, [अथवा] (यम्) जिस [वैरी से] (वयम्) हम (द्विष्मः) वैर करते हैं, [हे शूरो] (तम्) उसको (वः) तुम्हारे (जम्भे) जबड़े में (दध्मः) हम धरते हैं ॥२॥"

भावार्थ : उक्त दिशा में [इन्द्र पदधारी सेनापति] (तिरश्चिराजिः) नाम सेना व्यूह करके शत्रुओं को जीतकर.... [म० १] ॥२॥

टिप्पणी :२−(दक्षिणा) दक्षिणायाः (दिक्) दिशः। दिशायाः। उभयत्र विभक्तेर्लुप् (तिरश्चिराजिः) ऋत्विग्दधृक्०। पा० ३।२।५९। इति तिरस्+अञ्चू गतिपूजनयोः-क्विन्। अनिदितां हल उप०। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। छान्दसो ह्रस्वः। वसिवपियजिराजि०। उ० ४।१२।५। इति राजृ दीप्तौ, ऐश्वर्ये च-इञ्। तिरश्च्यः तिर्यग् अवस्थिता राजयः, आवलयः, यस्य तथाविधः सर्पः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः। यद्वा तिरश्चीनां तिर्यग्जातीनां पशुपक्ष्यादीनां पङ्क्तिवत् पङ्क्तिर्यस्य तथाविधः सेनाव्यूहः (पितरः) अ० १।२।१। रक्षकाः। इषवः, इत्यस्य विशेषणम्। अन्यद् गतम् ॥