Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 22 / 5

ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः। याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 22 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : तक्मनाशनः | छन्द : विराट्पथ्या बृहती | स्वर :

विषय : रोग नाश करने का उपदेश।

पदपाठ : ओक॑: । अ॒स्य॒ । मूज॑ऽवन्त: । ओक॑: । अ॒स्य॒ । म॒हा॒ऽवृ॒षा: । याव॑त् । जा॒त: । त॒क्म॒न् । तावा॑न् । अ॒सि॒ । बल्हि॑केषु । नि॒ऽओ॒च॒र: ॥२२.५॥

पदार्थ : (अस्य) इसका (ओकः) घर (मूजवन्तः) मूँज आदि घासवाले पर्वत हैं, और (अस्य) इसका (ओकः) घर (महावृषाः) महावृष्टिवाले देश हैं। (तक्मन्) हे दुःखित जीवन करने हारे ज्वर ! (यावत्) जबसे (जातः) तू उत्पन्न हुआ है, (तावान्=तावत्) तब से तू (बल्हिकेषु) हिंसावाले देशों में (न्योचरः) नित्य संगतिवाला (असि) है ॥५॥"

भावार्थ :

टिप्पणी :५−(ओकः) अञ्च्यञ्जियुजि० उ० ४।२१६। इति उच समवाये−असुन्, कुत्वम्। गृहम् (मूजवन्तः) मुजि ध्वनौ−अच्, मतुप्। नलोपो दीर्घश्च। मूजवान् पर्वतो मुञ्जवान्मुञ्जो विमुच्यत इषीकया−निरु० ९।८। मुञ्जादितृणयुक्ताः पर्वताः (ओकः) (अस्य) (महावृषाः) म० ४। महावृष्टियुक्ता देशाः (यावत्) यत्कालात् (जातः) उत्पन्नोऽसि (तावान्) तावत्। तत्कालात् (असि) (बल्हिकेषु) स्यमेरीट् च। उ० ३।४६। इति बल्ह परिभाषणहिंसाच्छादनेषु−कन्, इडागमः। हिंसादेशेषु (न्योचरः) जनेररष्ठ च। उ० ५।३८। इति नि+उच समवाये−अर। नित्यसंगन्ता ॥