Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 28 / 6

त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥ 6॥

Veda : Atharvaveda | Kand : 5 | Sukta : 28 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : अथर्वा | देवता : अग्न्यादयः | छन्द : पञ्चपदातिशक्वरी | स्वर :

विषय : रक्षा और ऐश्वर्य का उपदेश।

पदपाठ : त्रे॒धा । जा॒तम् । जन्म॑ना । इ॒दम् । हिर॑ण्यम् । अ॒ग्ने: । एक॑म् । प्रि॒यऽत॑मम् । ब॒भू॒व॒ । सोम॑स्य । एक॑म् । हिं॒सि॒तस्य॑ । परा॑ । अ॒प॒त॒त् । अ॒पाम् । एक॑म् । वे॒धसा॑म् । रेत॑: ।आ॒हु॒: । तत् । ते॒ । हिर॑ण्यम् । त्रि॒ऽवृत् । अ॒स्तु॒ । आयु॑षे ॥२८.६॥

पदार्थ : (इदम्) यह प्रसिद्ध (हिरण्यम्) कमनीय तेज [ब्रह्म] (त्रैधा) तीन प्रकार से (जन्मना) जन्म से (जातम्) उत्पन्न हुआ, (एकम्) एक (अग्नेः) अग्नि का (प्रियतमम्) अति प्रीतिवाला (बभूव) हुआ, (एकम्) एक (हिंसितस्य) पीड़ित (सोमस्य) चन्द्रमा का [प्रियतमः] [अतिप्रिय होकर] (परा अपतत्) [सूर्य से] आकर गिरा। (एकम्) एक को (वेधसाम्) विधान करनेवाली (अपाम्) जलधाराओं का (रेतः) बीज (आहुः) वे कहते हैं। (तत्) वह (हिरण्यम्) तेजःस्वरूप ब्रह्म (ते) तेरी (आयुषे) आयु के लिये (त्रिवृत्) त्रिवृति [तीनों जीवनसाधन] (अस्तु) होवे ॥६॥"

भावार्थ :

टिप्पणी :६−(त्रेधा) त्रिप्रकारेण (जातम्) उत्पन्नम् (जन्मना) उत्पत्त्या (इदम्) (हिरण्यम्) अ० १।९।२। कमनीयं तेजः। ब्रह्म (अग्नेः) भौतिकाग्नेः (एकम्) (प्रियतमम्) अतिशयप्रीतिकरम् (सोमस्य) चन्द्रस्य (एकम्) तेजः (हिंसितस्य) पीडितस्य। अन्धकारयुक्तस्येत्यर्थः (परा) पृथग्भावे (अपतत्) अधोऽगच्छत् सूर्यमण्डलात् (अपाम्) जलधाराणाम् (एकम्) तेजः (वेधसाम्) विधात्रीणाम् उत्पादयित्रीणाम् (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (तत्) पूर्वोक्तम् (हिरण्यम्) (त्रिवृत्) म– २। त्रिवृतिः। त्रिजीवनसाधनम् (अस्तु) भवतु (आयुषे) अ० १।३०।३। जीवनवर्धनाय ॥