Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 26 / 3

अ॒न्यत्रा॒स्मन्न्यु᳡च्यतु सहस्रा॒क्षो अम॑र्त्यः। यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 26 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : ब्रह्मा | देवता : पाप्मा | छन्द : अनुष्टुप् | स्वर :

विषय : कष्ट त्यागने के लिये उपदेश।

पदपाठ : अ॒न्यत्र॑ । अ॒स्मत् । नि । उ॒च्य॒तु॒ । स॒ह॒स्र॒ऽअ॒क्ष: । अम॑र्त्य: । यम् । द्वेषा॑म् । तम् । ऋ॒च्छ॒तु॒ । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । इत् । ज॒हि॒ ॥२६.३॥

पदार्थ : (सहस्राक्षः) सहस्रों [दोषों] में दृष्टि रखनेवाला, (अमर्त्यः) मनुष्यों का हित न करनेवाला [विघ्न] (अस्मत्) हम से (अन्यत्र) दूसरों में (नि) नित्य (उच्यतु) प्राप्त हो। (यम्) जिसको (द्वेषाम) हम बुरा जानें, (तम्) उसको (ऋच्छतु) वह [विघ्न] प्राप्त हो। और (यम्) जिसको (उ) ही (द्विष्मः) हम बुरा जानते हैं, (तम्) उसको (इत्) ही (जहि) नाश कर ॥३॥"

भावार्थ :

टिप्पणी :३−(अन्यत्र) पापात्मसु (अस्मत्) अस्मत्तः। सुकर्मभ्यः (नि) नितराम् (उच्यतु) उच समवाये। गच्छतु (सहस्राक्षः) अ० ३।११।३। सहस्रेषु बहुषु दोषेषु अक्षि दृष्टिर्यस्य सः (अमर्त्यः) तस्मै हितम्। पा० ५।१।५। इति यत्। मर्त्येभ्यो मनुष्येभ्योऽहितः (यम्) विघ्नम् (द्वेषाम) अप्रीतिं करवाम (तम्) (ऋच्छतु) प्राप्नोतु (यम्) (उ) अवधारणे (द्विष्मः) अप्रीतिं कुर्मः (तम्) (इत्) एव (जहि) नाशय ॥