Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 61 / 1

मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 61 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : रुद्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर की महिमा का उपदेश।

पदपाठ : मह्य॑म् । आप॑: । मधु॑ऽमत् । आ । ई॒र॒य॒न्ता॒म् । मह्य॑म् । सुर॑: । अ॒भ॒र॒त् । ज्योति॑षे । कम् । मह्य॑म् । दे॒वा: । उ॒त । विश्वे॑ । त॒प॒:ऽजा: । मह्य॑म् । दे॒व: । स॒वि॒ता । व्यच॑: । धा॒त् ॥६१.१॥

पदार्थ : (मह्यम्) मेरे लिये (आपः) व्यापनशील जल (मधुमत्) मधुरपन से (आ ईरयन्ताम्) आकर बहें, (मह्यम्) मेरे लिये (सूरः) लोकों को चलानेवाले सूर्य ने (ज्योतिषे) ज्योति करने को (कम्) सुख (अभरत्) धारण किया है। (उत) और (मह्यम्) मेरे लिये (तपोजाः) तप से उत्पन्न होनेवाले (विश्वे) सब (देवाः) उत्तम गुण हैं, (मह्यम्) मेरे लिये (देवः) व्यवहार में चतुर (सविता) ऐश्वर्यवान् मनुष्य ने (व्यचः) विस्तार (धात्=अधात्) धारण किया है ॥१॥"

भावार्थ :

टिप्पणी :१−(मह्यम्) मदर्थम्। ममाज्ञापालनायेत्यर्थः (आपः) व्याप्तिशीला जलधाराः (मधुमत्) यथा तथा माधुर्य्येण (आ) समन्तात् (ईरयन्ताम्) गच्छन्तु (मह्यम्) (सूरः) अ० ४।२।४। लोकप्रेरकः सूर्यः (अभरत्) अधरत् (ज्योतिषे) अ० १।९।१। प्रकाशदानाय (कम्) सुखम्−निघ० ३।६। (मह्यम्) (देवाः) उत्तमगुणाः (उत) अपि च (विश्वे) सब (तपोजाः) तपसः सामर्थ्याज् जाताः (मह्यम्) (देवः) व्यवहारकुशलः (सविता) ऐश्वर्यवान् मनुष्यः (व्यचः) अ० ४।१९।६। व्याप्तिम् (धात्) लुङि रूपम्। अधात्। धृतवान् ॥