Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 115 / 2

यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 115 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : ब्रह्मा | देवता : विश्वे देवाः | छन्द : अनुष्टुप् | स्वर :

विषय : पाप से मुक्ति का उपदेश।

पदपाठ : यदि॑। जाग्र॑त् ।यदि॑। स्वप॑न् । एन॑: । ए॒न॒स्य॑: । अक॑रम् । भू॒तम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रु॒प॒दात्ऽइ॑व । मु॒ञ्च॒ता॒म् ॥११५.२॥

पदार्थ : (यदि) जो (जाग्रत्) जागते हुए, (यदि) जो (स्वपन्) सोते हुए (एनस्यः) पापी मैंने (एनः) पाप (अकरम्) किया है। (भूतम्) वर्तमान प्राणीसमूह (च) और (भव्यम्) भविष्यत् प्राणीसमूह (द्रुपदात् इव) काठ के बन्धन के सदृश वर्तमान (तस्मात्) उस [पाप] से (मा) मुझको (मुञ्चताम्) छोड़ावें ॥२॥"

भावार्थ :

टिप्पणी :२−(यदि) सम्भावनायाम् (जाग्रत्) अ० ६।९६।३। जागरणं प्राप्तः (स्वपन्) निद्रां प्राप्तः (एनः) पापम् (एनस्यः) एनसि साधुः (अकरम्) अहं कृतवान् (भूतम्) लब्धसत्ताकं प्राणिजातम् (भव्यम्) भव्यगेय०। पा० ३।४।६८। इति कर्तरि यत्। भविष्यत्सत्ताकं प्राणिजातम् (द्रुपदात्) अ० ६।६२।३। काष्ठमयपादबन्धनात् (इव) यथा (मुञ्चताम्) उभे भूतभव्ये वियोजयताम् ॥