Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 134 / 1

अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 134 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : शुक्र | देवता : वज्रः | छन्द : परानुष्टुप्त्रिष्टुप् | स्वर :

विषय : शत्रुओं के शासन का उपदेश।

पदपाठ : अ॒यम् । वज्र॑: । त॒र्प॒य॒ता॒म् । ऋ॒तस्य॑ । अव॑ । अ॒स्य॒ । रा॒ष्ट्रम् । अप॑ । ह॒न्तु॒ । जी॒वि॒तम् । शृ॒णातु॑ । ग्री॒वा: । प्र । शृ॒णा॒तु॒ । उ॒ष्णिहा॑ । वृ॒त्रस्य॑ऽइव । शची॒ऽपति॑: ॥१३४.१॥

पदार्थ : (अयम्) यह (वज्रः) वज्र [दण्ड] (ऋतस्य) सत्य धर्म की (तर्पयताम्) तृप्ति करे, (अस्य) इस [शत्रु] के (राष्ट्रम्) राज्य को (अव=अवहत्य) नाश करके [उसके] (जीवितम्) जीवन को (अप हन्तु) नाश कर देवे, (ग्रीवाः) गले की नाड़ियों को (शृणातु) काटे और (उष्णिहा) गुद्दी की नाड़ियों को (प्रशृणातु) तोड़ डाले, (इव) जैसे (शचीपतिः) कर्म्मों वा बुद्धियों का पति [मनुष्य] (वृत्रस्य) अपने शत्रु के [ग्रीव आदि] को ॥१॥"

भावार्थ :

टिप्पणी :१−(अयम्) (वज्रः) दण्डः। शासनम् (तर्पयताम्) तृप्तिं कुर्यात् (ऋतस्य) सत्यस्य धर्मस्य (अव) अवहत्य (अस्य) शत्रोः (राष्ट्रम्) राज्यम् (अपहन्तु) विनाशयतु (जीवितम्) जीवनम् (शृणातु) हिनस्तु (ग्रीवाः) अ० २।३३।२। कन्धरावयवान् (प्रशृणातु) प्रच्छिनत्तु (उष्णिहा) अ० २।३३।२। बहुवचनस्यैकवचनम्। उत्स्नाता धमनीः (वृत्रस्य) शत्रोः (इव) यथा (शचीपतिः) अ० ३।१०।१२। कर्मणां प्रज्ञानां वा पालकः पुरुषः ॥