Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 21 / 1

स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्। स पू॒र्व्यो नूत॑नमा॒विवा॑स॒त्तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित्पु॒रु ॥ 1॥

Veda : Atharvaveda | Kand : 7 | Sukta : 21 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : ब्रह्मा | देवता : आत्मा | छन्द : पराशक्वरी विराड्गर्भा जगती | स्वर :

विषय : ईश्वर की आज्ञा के पालन का उपदेश।

पदपाठ : स॒म्ऽएत॑ । विश्वे॑ । वच॑सा । पति॑म् । दि॒व: । एक॑: । वि॒ऽभू: । अति॑थि: । जना॑नाम् । स: । पू॒र्व्य: । नूत॑नम् । आ॒ऽविवा॑सत् । तम् । व॒र्त॒नि॒: । अनु॑ । व॒वृ॒ते॒ । एक॑म् । इत् । पु॒रु ॥२२.१॥

पदार्थ : (विश्वे) हे सब लोगो ! (वचसा) वचन [सत्य वचन] से (दिवः) सूर्य के (पतिम्) स्वामी से (समेत) आकर मिलो, (एकः) वह एक (विभूः) सर्वव्यापक प्रभु (जनानाम्) सब मनुष्यों का (अतिथिः) अतिथि [नित्य मिलने योग्य] है। (सः) वह (पूर्व्यः) सबका हितकारी ईश्वर (नूतनम्) इस नवीन [जगत्] को (आविवासत्) विविध प्रकार निवास कराता है, (वर्तनिः) प्रत्येक वर्तने योग्य मार्ग (तम् एकम् अनु) उस एक [परमात्मा] की ओर (इत्) ही (पुरु) अनेक प्रकार से (ववृते) घूमा है ॥१॥"

भावार्थ :

टिप्पणी :१−(समेत) आगत्य संगच्छध्वम् (विश्वे) सर्वे जनाः (वचसा) सत्यवचनेन (पतिम्) स्वामिनम् (दिवः) सूर्यलोकस्य (एकः) अद्वितीयः (विभूः) सर्वव्यापकः प्रभुः (अतिथिः) ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्य०। उ० ४।२। इति अत सातत्यगमने-इथिन्। अतिथिरभ्यतितो गृहान् भवति। अभ्येति तिथिषु परकुलानीति वा, परगृहाणीति वा। अयमपीतरोऽतिथिरेतस्मादेव-निरु० ४।५। अतनशीलः। नित्यं प्रापणीयः। विद्वान्। अभ्यागतः (जनानाम्) मनुष्याणाम् (सः) विभूः (पूर्व्यः) अ० ४।१।६। पूर्वाय समस्ताय हितः (नूतनम्) अभिनवं जगत्, नित्यं नवीनाविष्कारपदत्त्वात् (आविवासत्) आङ्+वि+वस निवासे-णिच्-लट्। छन्दस्युभयथा। पा० ३।४।११७। शप आर्धधातुकत्वात् णिलोपः, इकारलोपश्च। समन्ताद् विविधं निवासयति (तम्) (वर्तनि) वृतेश्च। उ० २।१०६। वृतु वर्तने-अनि। मार्गः (अनु) प्रति (ववृते) वृतु-लिट्। वर्तते स्म (एकम्) परमात्मानम् (इत्) एव (पुरु) पुरुधा। अनेकधा ॥