Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 70 / 4

अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्य᳡म्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥ 4॥

Veda : Atharvaveda | Kand : 7 | Sukta : 70 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : अथर्वा | देवता : श्येनः | छन्द : अनुष्टुप् | स्वर :

विषय : शत्रु के दमन का उपदेश।

पदपाठ : अपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒व‍ि: ॥७३.४॥

पदार्थ : [हे शत्रु !] (ते) तेरे (अपाञ्चौ) पीछे को चढ़ाये गये (उभौ) दोनों (बाहू) भुजाओं को (अपि) और (आस्यम्) मुख को (नह्यामि) मैं बाँधता हूँ। (देवस्य) विजयी (अग्नेः) तेजस्वी सेनापति के (तेन मन्युना) उस क्रोध से (ते) तेरे (हविः) भोजन आदि ग्राह्यपदार्थ को (अवधिषम्) मैंने नष्ट कर दिया है ॥४॥"

भावार्थ :

टिप्पणी :४−(अपाञ्चौ) अपाञ्चनौ पृष्ठे सम्बद्धौ (ते) तव (उभौ) द्वौ (बाहू) भुजौ (अपि) एव (नह्यामि) बध्नामि (आस्यम्) मुखम् (अग्नेः) तेजस्विनः सेनापतेः (देवस्य) विजयमानस्य (मन्युना) तेजसा। क्रोधेन (ते) तव (अवधिषम्) हन्तेर्लुङ्। नाशितवानस्मि (हविः) होतव्यम्। ग्राह्यं द्रव्यम् ॥