Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 74 / 3

त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्। अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ॥ 3॥

Veda : Atharvaveda | Kand : 7 | Sukta : 74 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वाङ्गिराः | देवता : जातवेदाः | छन्द : अनुष्टुप् | स्वर :

विषय : शारीरिक और मानसिक रोग हटाने का उपदेश।

पदपाठ : त्वा॒ष्ट्रेण॑ । अ॒हम् । वच॑सा । वि । ते॒ । ई॒र्ष्याम् । अ॒मी॒म॒द॒म् । अथो॒ इति॑ । य: । म॒न्यु: । ते॒ । प॒ते॒ । तम् । ऊं॒ इति॑ । ते॒ । श॒म॒या॒म॒सि॒ ॥७८.३॥

पदार्थ : [हे मनुष्य !] (त्वाष्ट्रेण) सबके बनानेवाले परमेश्वर के (वचसा) वचन से (अहम्) मैंने (ते) तेरी (ईर्ष्याम्) ईर्ष्या को (वि अमीमदम्) मदरहित कर दिया है (अथो) और (पते) हे स्वामिन् ! [परमेश्वर !] (यः) जो (ते) तेरा (मन्युः) क्रोध है, (ते) तेरे (तम्) उसको (उ) अवश्य (शमयामसि) हम शान्त करते हैं ॥३॥"

भावार्थ :

टिप्पणी :३−(त्वाष्ट्रेण) अ० २।५।६। त्वष्टृ-अण्। सर्वनिर्मातुः परमेश्वरस्य सम्बन्धिना (अहम्) जीवः (वचसा) वचनेन (ते) तव (ईर्ष्याम्) अ० ६।१८।१। परसम्पत्त्यसहनम्। मत्सरम् (वि अमीमदम्) विगतमदां कृतवानस्मि (अथो) अपि च (यः) (मन्युः) क्रोधः (ते) तव (पते) स्वामिन् ! परमेश्वर (तम्) (उ) अवधारणे (ते) (शमयामसि) शमयामः। शान्तं कुर्मः ॥