Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 4 / 3

इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥ 3॥

Veda : Atharvaveda | Kand : 8 | Sukta : 4 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : चातनः | देवता : इन्द्रासोमौ, अर्यमा | छन्द : जगती | स्वर :

विषय : राजा और मन्त्री के धर्म का उपदेश।

पदपाठ : इन्द्रा॑सोमा । दु॒:ऽकृत॑: । व॒व्रे । अ॒न्त: । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यत॒: । न । ए॒षा॒म् । पुन॑: । एक॑: । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शव॑: ॥४.३॥

पदार्थ : (इन्द्रासोमा) हे सूर्य्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (दुष्कृतः) दुष्कर्मियों को (वव्रे अन्तः) [ढकनेवाले] गढ़े के बीच (अनारम्भणे) अथाह (तमसि) अन्धकार में (प्र विध्यतम्) छेद डालो। (यतः) जिस [गढ़े] से (एषाम्) उनमें से (पुनः) फिर (एकः चन) कोई भी (न) न (उदयत्) ऊपर आवे, (तत्) सो (वाम्) तुम दोनों का (मन्युमत्) क्रोधभरा (शवः) बल [उनके] (सहसे) हराने के लिये (अस्तु) होवे ॥३॥"

भावार्थ :

टिप्पणी :३−(इन्द्रासोमा) म० १। तेजस्विनौ राजमन्त्रिणौ (दुष्कृतः) दुष्कर्मिणः पुरुषान् (वव्रे) घञर्थे कविधानम्। वा० पा० ३।२।५८। वृञ् संवरणे-क। कृञादीनां के द्वे भवतः। वा० पा० ३।२।५८। आवरके स्थाने। कूपे-निघ० ३।२३। (अन्तः) मध्ये (अनारम्भणे) रभि औत्सुक्ये-ल्युट्। अनारभ्यमाणे। अगम्यमाने (प्र) प्रकर्षेण (विध्यतम्) ताडयतम् (यतः) यस्मात् स्थानात् (न) निषेधे (एषाम्) उपद्रविणाम् (पुनः) (एकश्चन) एकोऽपि (उदयत्) इण् गतौ-लेट्, अडागमः उद्गच्छेत् (तत्) तस्मात्कारणात् (वाम्) युवयोः (अस्तु) (सहसे) अभिभवाय (मन्युमत्) क्रोधयुक्तम् (शवः) अ० ५।२।२। बलम् ॥