Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 4 / 4

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्। उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥ 4॥

Veda : Atharvaveda | Kand : 8 | Sukta : 4 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : चातनः | देवता : इन्द्रासोमौ, अर्यमा | छन्द : जगती | स्वर :

विषय : हथियार बनाने का उपदेश।

पदपाठ : इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒व: । व॒धम् । सम् । पृ॒थि॒व्या: । अ॒घऽशं॑साय । तर्ह॑णम् । उत् । त॒क्ष॒त॒म् । स्व॒र्य᳡म् । पर्व॑तेभ्य: । येन॑ । रक्ष॑: । व॒वृ॒धा॒नम् । नि॒ऽजूर्व॑थ: ॥४.४॥

पदार्थ : (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (दिवः) आकाश से और (पृथिव्याः) पृथिवी से (वधम्) मारू हथियार (सम् वर्तयतम्) लुढ़कवाओ, [जिससे] (अघशंसाय) बुरा चीतनेवाले के लिये (तर्हणम्) मरण [होवे]। ((स्वर्यम्) धड़ाकेवाला वा तपा देनेवाला [हथियार] (पर्वतेभ्यः) पहाड़ों से (उत् तक्षतम्) ढलवाओ, (येन) जिस से (वावृधानम्) बढ़ते हुए (रक्षः) राक्षस को (निजूर्वथः) तुम दोनों मार गिराओ ॥४॥"

भावार्थ :

टिप्पणी :४−(इन्द्रासोमा) म० १। (वर्तयतम्) वर्तनेन प्रेरयतम् (दिवः) आकाशात् (वधम्) हननसाधनमायुधम् (सम्) सम्यक् (पृथिव्याः) भूमेः सकाशात् (अघशंसाय) अनिष्टचिन्तकाय (तर्हणम्) बृह हिंसायाम्-ल्युट्। मरणम् (उत्) उत्कर्षेण (तक्षतम्) तनूकुरुतम् (स्वर्यम्) अ० २।५।६। स्वृ शब्दोपतापयोः। शब्दकारकं प्रतापकं वा युधम् (पर्वतेभ्यः) शैलेभ्यः। दुर्गशिखरेभ्यः (येन) वधेन (रक्षः) राक्षसजातिम् (वावृधानम्) वर्धमानम् (निजूर्वथः) जुर्वी हिंसायाम्। निहथः ॥