Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 7 / 22

तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥ 22॥

Veda : Atharvaveda | Kand : 8 | Sukta : 7 | Paryay : | Mantra No : 22

In Hindi:

ऋषि : अथर्वा | देवता : भैषज्यम्, आयुष्यम्, ओषधिसमूहः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग के विनाश का उपदेश।

पदपाठ : तस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥

पदार्थ : (तस्य) उस (अमृतस्य) अमर [पुष्टिकारक मेघ] का (बलम्) बल [सार] (इमम् पुरुषम्) इस पुरुष को (पाययामसि) हम पिलाते हैं। (अथो) और (भेषजम्) चिकित्सा (कृणोमि) करता हूँ (यथा) जिससे वह (शतहायनः) सौ वर्षवाला (असत्) होवे ॥२२॥"

भावार्थ :

टिप्पणी :२२−(तस्य) पूर्वोक्तस्य (अमृतस्य) अमरणस्य। पुष्टिकरस्य पर्जन्यस्य (इमम्) (बलम्) सारम् (पुरुषम्) प्राणिनम् (पाययामसि) पानेन पोषयामः (अथो) अपि च (कृणोमि) करोमि (भेषजम्) चिकित्साम् (यथा) येन प्रकारेण (असत्) भवेत् (शतहायनः) अ० ८।२।८। शतसंवत्सरायुर्युक्तः ॥