Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 7 / 23

व॑रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्। स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ॥ 23॥

Veda : Atharvaveda | Kand : 8 | Sukta : 7 | Paryay : | Mantra No : 23

In Hindi:

ऋषि : अथर्वा | देवता : भैषज्यम्, आयुष्यम्, ओषधिसमूहः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग के विनाश का उपदेश।

पदपाठ : व॒रा॒ह: । वे॒द॒ । वी॒रुध॑म्। न॒कु॒ल: । वे॒द॒ । भे॒ष॒जीम् । स॒र्पा: । ग॒न्ध॒र्वा: । या: । वि॒दु: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२३॥

पदार्थ : (वराहः) सूअर (वीरुधम्) ओषधि (वेद) जानता है, (नकुलः) नेवला (भेषजीम्) रोग जीतनेवाली वस्तु (वेद) जानता है। (सर्पाः) सर्प और (गन्धर्वाः) गन्धर्व [दुःखदायी पीड़ा देनेवाले जीव] (याः) जिनको (विदुः) जानते हैं, (ताः) उनको (अस्मै) इस [पुरुष] के लिये (अवसे) रक्षा के हित (हुवे) मैं बुलाता हूँ ॥२३॥"

भावार्थ :

टिप्पणी :२३−(वराहः) अन्येष्वपि दृश्यते। पा० ३।२।१०१। वर+आङ्+हन् वा हृञ् हरणे-ड। वराय अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम्, वा वरान्, आहरतीति। वराहो मेघो भवति वराहारः,... अयमपीतरो वराह एतस्मादेव, बृहति मूलानि, वरंवरं मूलं बृहतीति वा.... अङ्गिरसोऽपि वराहा उच्यन्ते-निरु० ५।४। शूकरः (वेद) जानाति (वीरुधम्) ओषधिम् (नकुलः) अ० ६।१३९।५। जन्तुविशेषः (भेषजीम्) भयनिवारिकां चिकित्साम् (सर्पाः) (गन्धर्वाः) अ० ८।६।१९। दुःखदायिनश्च ते पीडकाश्च ते (याः) ओषधीः (विदुः) जानन्ति (ताः) (अस्मै) पुरुषाय (अवसे) रक्षणाय (हुवे) आह्वयामि ॥