Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 8 / 6

बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः। तेन॒ शत्रू॑न॒भि सर्वा॒न्न्यु᳡ब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म् ॥ 6॥

Veda : Atharvaveda | Kand : 8 | Sukta : 8 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : परसेनाहननम्, इन्द्रः, वनस्पतिः | छन्द : आस्तारपङ्क्तिः | स्वर :

विषय : शत्रु के नाश का उपदेश।

पदपाठ : बृ॒हत् । हि । जाल॑म् । बृ॒ह॒त: । श॒क्रस्य॑ । वा॒जिनी॑ऽवत: । तेन॑ । शत्रू॑न् । अ॒भि । सर्वा॑न् । नि । उ॒ब्ज॒ । यथा॒ । न । मुच्या॑तै । क॒त॒म: । च॒न । ए॒षा॒म् ॥८.६॥

पदार्थ : (हि) क्योंकि (बृहतः) बड़े (वाजिनीवतः) बलवती क्रियाओंवाले (शक्रस्य) शक्तिमान् [सेनापति] का (जालम्) जाल [फैलाव] (बृहत्) बड़ा [है]। (तेन) उस [जाल] से (सर्वान्) सब (शत्रून् अभि) शत्रुओं पर (नि उब्ज) झुक पड़, (यथा) जिससे (एषाम्) इनमें से (कतमः चन) कोई भी (न मुच्यातै) न छूटे ॥६॥"

भावार्थ :

टिप्पणी :६−(बृहत्) महत् (हि) यस्मात् कारणात् (जालम्) म० ५। विस्तारः (बृहतः) महतः (शक्रस्य) शक्तिमतः सेनापतेः (वाजिनीवतः) वाजो बलम्-निघ० २।९। बलवतीक्रियायुक्तस्य (तेन) जालेन (शत्रून्) (अभि) प्रति (सर्वान्) (न्युब्ज) उब्ज आर्जवे। निगृह्य धाव (यथा) येन प्रकारेण (न मुच्यातै) अ० ४।१६।४। न मुक्तो भवेत् (कतमश्चन) कोऽपि (एषाम्) शत्रूणां मध्ये ॥