Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 8 / 7

बृ॒हत्ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य। तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्य᳡र्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥ 7॥

Veda : Atharvaveda | Kand : 8 | Sukta : 8 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : परसेनाहननम्, इन्द्रः, वनस्पतिः | छन्द : विपरीतपादलक्ष्माचतुष्पदातिजगती | स्वर :

विषय : शत्रु के नाश का उपदेश।

पदपाठ : बृ॒हत् । ते॒ । जाल॑म् । बृ॒ह॒त: । इ॒न्द्र॒ । शू॒र॒ । स॒ह॒स्र॒ऽअ॒र्घस्य॑ । श॒तऽवी॑र्यस्य । तेन॑ । श॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । ज॒घान॑ । श॒क्र: । दस्यू॑नाम् । अ॒भि॒ऽधाय॑ । सेन॑या ॥८.७॥

पदार्थ : (इन्द्र) हे इन्द्र ! [महाप्रतापी !] (शूर) हे शूर ! (बृहतः) बड़े, (सहस्रार्घस्य) सहस्रों से पूजा योग्य, (शतवीर्यस्य) सैकड़ों वीरत्ववाले (ते) तेरे का (बृहत्) बड़ा (जालम्) जाल [फैलाव] है। (तेन) उस [जाल] से (शक्रः) शक्तिमान् [सेनापति] ने (सेनया) [अपनी] सेना से (शतम्) सौ, (सहस्रम्) सहस्र, (अयुतम्) दश सहस्र, (न्यर्बुदम्) अनेक दश कोटि (दस्यूनाम्) डाकुओं को (अभिधाय) घेर कर (जघान) मार डाला ॥७॥"

भावार्थ :

टिप्पणी :७−(बृहत्) (ते) तव (जालम्) म० ५। विस्तारः (बृहतः) (इन्द्र) परमैश्वर्यवन् सेनापते (शूर) पराक्रमिन् (सहस्रार्घस्य) अर्ह पूजायाम्-घञ् कुत्वम्। सहस्रैः पूजितस्य (शतवीर्यस्य) बहुवीर्योपेतस्य (तेन) जालेन (शतम्) (सहस्रम्) (अयुतम्) दशसहस्रम् (न्यर्बुदम्) अर्व गतौ हिंसायाम् च-उदच् प्रत्ययः, इति रामजसनकोशः। अर्बुदो मेघो भवत्यरणमम्बु तद्दोऽम्बुदोऽम्बुमद्भातीति वाम्बुमद्भवतीति वा, स यथा महान् बहुर्भवति वर्षंस्तवार्बुदम्-निरु० ३।१०। बहुदशकोटिम् (जघान) ममार (शक्रः) शक्तिमान् (दस्यूनाम्) म० ५। चोरादीनाम् (अभिधाय) आच्छाद्य (सेनया) स्वसेनया ॥