Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 8 / 14

वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न् ॥ 14॥

Veda : Atharvaveda | Kand : 8 | Sukta : 8 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : परसेनाहननम्, इन्द्रः, वनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : शत्रु के नाश का उपदेश।

पदपाठ : वन॒स्पती॑न् । वा॒न॒स्प॒त्यान्‌ । ओष॑धी: । उ॒त । वी॒रुध॑: । द्वि॒ऽपात् । चतु॑:ऽपात् । इ॒ष्णा॒मि॒ । यथा॑ । सेना॑म् । अ॒मूम् । हन॑न् ॥८.१४॥

पदार्थ : (वनस्पतीन्) सेवनीय शास्त्रों के पालन करनेवाले पुरुषों, (वानस्पत्यान्) सेवनीय शास्त्रों के पालन करनेवालों के सम्बन्धी पदार्थों, (ओषधीः) अन्न आदि ओषधियों (उत) और (वीरुधः) जड़ी बूटियों (द्विपात्) दोपाये और (चतुष्पात्) चौपाये को (इष्णामि) मैं प्राप्त करता हूँ (यथा) जिससे वे सब (अमूम् सेनाम्) उस सेना को (हनन्) मारें ॥१४॥ "

भावार्थ :

टिप्पणी :१४−(वनस्पतीन्) अ० ३।६।६। [वनस्पते] वनस्य सम्भजनीयस्य शास्त्रस्य पालक-इति दयानन्दभाष्ये, यजु० २७।२१। सेवनीयशास्त्राणां पालकान् (वानस्पत्यान्) अ० ३।६।६। सेवनीयशास्त्राणां पालकानां सम्बन्धिनः पदार्थान् (ओषधीः) अन्नादीन् (उत) अपिच (वीरुधः) लतादीन् (द्विपात्) विभक्तेः सुः। द्विपादम्। पादद्वयोपेतं मनुष्यादिकम् (चतुष्पात्) गवाश्वहस्त्यादिकम् (इष्णामि) इष गतौ। गच्छामि। प्राप्नोमि (यथा) येन प्रकारेण (सेनाम्) (अमूम्) दृश्यमानाम् (हनन्) लेटि रूपम्। ते घ्नन्तु ॥