Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 9 / 9

अ॑प्रा॒णैति॑ प्रा॒णेन॑ प्राण॒तीनां॑ वि॒राट् स्व॒राज॑म॒भ्य᳡ति प॒श्चात्। विश्वं॑ मृ॒शन्ती॑म॒भिरू॑पां वि॒राजं॒ पश्य॑न्ति॒ त्वे न॒ त्वे प॑श्यन्त्येनाम् ॥ 9॥

Veda : Atharvaveda | Kand : 8 | Sukta : 9 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : अथर्वा | देवता : कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : अ॒प्रा॒णा । ए॒ति॒ । प्रा॒णेन॑ । प्रा॒ण॒तीना॑म् । वि॒ऽराट् । स्व॒ऽराज॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । विश्व॑म् । मृ॒शन्ती॑म् । अ॒भिऽरू॑पाम् । वि॒ऽराज॑म् । पश्य॑न्ति । त्वे इति॑ । न । त्वे । इति॑ । प॒श्य॒न्ति॒ । ए॒ना॒म् ॥९.९॥

पदार्थ : (अप्राणा) न श्वास लेनेवाली (विराट्) विराट् (विविधेश्वरी) (प्राणतीनाम्) श्वास लेनेवाली [प्रजाओं] के (प्राणेन) श्वास के साथ (एति) चलती है और (पश्चात्) फिर (स्वराजम् अभि) स्वराट् [स्वयं राजा, परमेश्वर] की ओर (एति) जाती है। (विश्वम्) जगत् को (मृशन्तीम्) छूती हुई (अभिरूपाम्) मनोहर (विराजम्) विराट् [महेश्वरी] को (त्वे) कोई-कोई (पश्यन्ति) देखते हैं और (त्वे) कोई-कोई (एनाम्) इस [महेश्वरी] को (न) नहीं (पश्यन्ति) देखते हैं ॥९॥"

भावार्थ :

टिप्पणी :९−(अप्राणा) नास्ति प्राणः श्वासग्रहणावकाशो यस्याः सा। निरन्तरं चेष्टायमाना। निरलसा (प्राणेन) श्वासेन (प्राणतीनाम्) प्रश्वसन्तीनां प्रजानाम् (विराट्) म० १। ईश्वरशक्तिः (स्वराजम्) राजृ-क्विप्। स्वयं राजानं परमेश्वरम् (अभि) प्रति (एति) (पश्चात्) पुनः (विश्वम्) जगत् (मृशन्तीम्) स्पृशन्तीम् (अभिरूपाम्) मनोहरम् (विराजम्) महेश्वरीम् (पश्यन्ति) साक्षात्कुर्वन्ति (त्वे) सर्वनिघृष्वरिष्व–०। उ० १।१५३। तनोतेः-वन्, टिलोपो निपात्यते। त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तमर्धनामेत्येके-निरु० १।७। एके विद्वांसः (न) निषेधे (त्वे) अन्ये मूढाः (पश्यन्ति) (एनाम्) विराजम् ॥