Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 9 / 10

को वि॒राजो॑ मिथुन॒त्वं प्र वे॑द॒ क ऋ॒तून्क उ॒ कल्प॑मस्याः। क्रमा॒न्को अ॑स्याः कति॒धा विदु॑ग्धा॒न्को अ॑स्या॒ धाम॑ कति॒धा व्यु᳡ष्टीः ॥ 10॥

Veda : Atharvaveda | Kand : 8 | Sukta : 9 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : अथर्वा | देवता : कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : क: । वि॒ऽराज॑: । मि॒थु॒न॒ऽत्वम् । प्र । वे॒द॒ । क: । ऋ॒तून् । ऊं॒ इति॑ । कल्प॑म् । अ॒स्या॒: । क्रमा॑न् । क: । अ॒स्या॒: । क॒त‍ि॒ऽधा । विऽदु॑ग्धान् । क: । अ॒स्या॒: । धाम॑ । क॒ति॒ऽधा । विऽउ॑ष्टी: ॥९.१०॥

पदार्थ : (कः) कौन पुरुष (विराजः) विराट् की [विविधेश्वरी ईश्वरशक्ति की] (मिथुनत्वम्) बुद्धिमत्ता (प्र) भले प्रकार (वेद) जानता है, (कः) कौन (अस्याः) इस [विराट्] के (ऋतून्) ऋतुओं [नियत कालों] को, और (कः) कौन (उ) ही (कल्पम्) सामर्थ्य को। (कः) कौन (अस्याः) इसके (कतिधा) कितने ही प्रकार से (विदुग्धान्) पूर्ण किये हुए (क्रमान्) क्रमों [विधानों] को, (कः) कौन (अस्याः) इसके (धाम) घर को और (कतिधा) कितने ही प्रकार की (व्युष्टीः) समृद्धियों को [जानता है] ॥१०॥"

भावार्थ :

टिप्पणी :१०−(कः) (विराजः) म० १। विविधैश्वर्याः (मिथुनत्वम्) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। मिथ वधे मेधायां च-उनन्, भावे त्व। बुद्धिमत्ताम् (प्र) प्रकर्षेण (वेद) जानाति (ऋतून्) वसन्तादितुल्यनियतकालान् (कः) (उ) एव (कल्पम्) कृपू सामर्थ्ये-अच् घञ् वा। सामर्थ्यम् (अस्याः) पूर्वोक्तायाः (क्रमान्) विधानानि (कः) (अस्याः) (कतिधा) कतिप्रकारेण। बहुप्रकारेण (विदुग्धान्) विविधपूरितान् (कः) (अस्याः) (धाम) गृहम् (कतिधा) (व्युष्टीः) वि+वस निवासे, आच्छादने प्रीतौ च, उष दाहे, वश कान्तौ वा-क्तिन्। समृद्धीः। प्रकाशान्। स्तुतीः ॥